________________
[१]
साधव इह समाहितं नमन्ति सतां समाधृतसमा हितम्।
कुर्वन् हृदि समाहितं तमहमपि वन्दे समाहितम् ।। इह सतां हितं समाहितं समाधृतसमाः साधवः नमन्ति, तं हृदि समाहितं कुर्वन् अहम् अपि वन्दे।
साधव इति- इह जगति सतां सत्पुरुषाणां हितं कल्याणकरम्, समाहितं संसिद्धं युक्त्यागमसिद्धमित्यर्थः, समाहितं समाधिस्थं, ध्याननिमग्नमर्हत्परमेष्ठिनमित्यर्थः । आत्मानं वा 'समाधिस्थे समाहितः। त्रिषुन्यस्तप्रतिज्ञानसंसिद्धे यम आत्मनि।' इति विश्वलोचनः। समाधृतसमाः सम्यक-प्रकारेण आधुतं समं साम्यं यैस्ते समाधृतसमाः समताधारिण इति यावत्, साधवो मुनयो नमन्ति नमस्कुर्वन्ति । तम् अर्हत्परमेष्ठिनं शुद्धात्मानं वा हृदि चित्ते समाहितं संस्थापितं कुर्वन्, अहमपि ग्रन्थकर्ता, वन्दे नमस्करोमि । 'समा वर्षे सदृक्सर्वमान्येषु च समं त्रिषु' इति विश्वलोचनः ।।१।।
___ अर्थ- इस जगत् में जो सत्पुरुषों का हित करने वाले हैं, समाहित- संसिद्धयुक्ति-आगम से सिद्ध हैं, तथा समाहित- समाधिस्थ हैं- ध्यान निलीन हैं, उन अरहन्त परमेष्ठी को साम्यभाव के धारक साधु नमस्कार करते हैं। अतः उन्हें हृदय में धारण करता हुआ मैं भी नमस्कार करता हूँ-उनकी त्रिकाल वन्दना करता हूँ ।।१।।
[२] सुधृतरत्नत्रयशरं गुरो ध्यानवसुविनष्टकुसुमशरम् ।
त्वां पीतानुभवशरं यजेऽमुं शमय मेऽनाश ! रम् ।। हे गुरो! (ज्ञानसागर!) अनाश! सुधृतरत्नत्रयशरं ध्यानवसुविनष्टकुसुमशरम्, पीतानुभवशरम् त्वाम्, (अहं) यजे मे अमुंरं शमय।
सुधृतेति- हे गुरो! (ज्ञानसागर!) अनाश! यस्य आशा इच्छा वासना वा न विद्यते यस्य सः अनाशः तत्सम्बुद्धौ हे अनाश! अथवा न विद्यते नाशो यस्य स तत्सम्बुद्धौ हे अनाश अथवा अशनम् आश आहार इत्यर्थः, न विद्यते आशो यस्य सः अनाशः तत्सम्बुद्धौ, समाधिवेलायां त्यक्तचतुर्विधाहार ! इत्यर्थः। सुधृतरत्नत्रयशरं सुधृतो रत्नत्रयमेव शरो हारो येन तं 'शरो हारे शरे पुंसि' इति विश्वलोचनः
(१४५)