________________
१२
नमिउणस्तोत्रम् ॥
अथ गाथायुग्मेन भगवतः पार्श्वप्रभोश्चतुर्थविषधर भयनिवारकत्वमहिमा दर्श्यते । ॥ गाथा ॥
विलसंतभोगभीसण फुरिआरुणनयणतरलजीहालं । उग्गभुअंगंनवजलय सच्छहंभीसणायारं ॥ ८ ॥
मन्नंतिकीडसरिसं दूरपरिच्छूद विसम विसवेगा । तुहनामस्करफुडा सद्धमंत-गुरु आनरालोए ॥ ९ ॥ ( छाया )
नराः लोके तवनामक्षरस्फुटसिद्धमंत्रेण गुरवः अत एव दूरपरिच्छ्रनविषमविषयेगाः संतः विलसद्भोगभीषणस्फुरितारुणनयनतरल जिन्हें नवजलदसदृशं भीषणाकारं ( भीषणाचारं ) वा एतादृशं उग्रभुजंगं कीटसदृशं मन्यते ॥ ८-९ ॥
( विवरणम् )
ये नराः मानवाः लोके भुवने तव भवतः नामाक्षराणि एव स्फुटः प्रथितः सिद्धमंत्रः तेन गुरुः प्रभावशालिनः अतएव दूरं दूरतः परिच्छूनः परित्यक्तः विषमः मृत्युप्रदः विषवेगः गरलप्रभावः यैः ते विलसन् कान्तिमान् भोगः