SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ( ७१ ) शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ । व्याधिर्भेषज संग्रहैश्च विविधैर्मत्रप्रयोगैर्विषं, सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ ४३१ ॥ तीर्थयात्रा कीस को फलदायी होती है ? मद्यमांसाशनं रात्रौ भोजनं कन्दभचणम् । ये कुर्वन्ति वृथा तेषां तीर्थयात्रा जपस्तपः ।। ४३२ ।। वृथा चैकादशी प्रोक्ता वृथा जागरणं हरेः । वृथा च पौष्करी यात्रा वृथा चान्द्रायणं तपः ।। ४३३ ॥ देवानन्दोदरे श्रीमान्, श्वेतषष्ठ्यां सदा शुचिः । श्रवतीर्णोऽसि मासस्याषाढस्य शुचिता ततः ॥ ४३४ ॥ त्रिशला सर्वसिद्धेच्छा त्रयोदश्यामभूद्यतः । तवावतारस्तेनैषा सर्वसिद्धा त्रयोदशी ॥ ४३५ ॥ ॥ ४३६ ॥ शुक्लत्रयोदश्यां यश्चापलं मेरुं प्रचालयन् । चित्रं कृतवांस्तद्योगाच्चैत्रमासोऽपि कथ्यते यस्याद्यदशम्यां दुर्ग- मोक्षमार्गस्य शीर्षकम् । चारित्रमादतं युक्ता, मासोऽस्य मार्गशीर्षता ॥ ४३७ ॥ दशम्यां यस्य शुक्लायां, केवल श्रीरहो त्वया । व्याहृता तेन मासोऽस्य, युक्ता माधवता प्रभो ! ॥ ४३८ ॥ तव निर्वाणकल्याणं, यद्दिनमागमिष्यति । ततो न वेधि नाथोsहं, मादृशोऽध्यचवेदिनः ॥ ४३६ ॥ 1
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy