SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ( ६२ ) परमात्मा कोण है । दुषणेभ्यो विनिर्मुक्तो-ऽष्टादशभ्यो भवेद्धि यः । प्रातिहार्याष्टकैर्युक्तः, परमात्मा स उच्यते ॥ ३७९ ॥ श्री आदीश्वर स्तुति। श्रीश@जयभूषणं जिनवरं श्रीनाभिभूपात्मजं, सेन्द्र किवरैर्नरेन्द्रनिकरैक्या प्रणुनैनतम् । . ज्ञानं यस्य त्रिकालवस्तुविषयं लोकेतराभाषकं, सर्वेषां हितदं कृपारसमयं वन्दे तमादीश्वरम् ॥३८॥ विद्या-प्रशंसा। विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयो, धेनुः कामदुधा रतिश्च विरहे नेत्रं तृतीयं च सा । सत्कारायतनं कुलस्य महिमा रत्नविना भूषणं, तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु ॥३८१।। लोभनिन्दा। अतिलोभो न कर्त्तव्यश्चक्रं भ्रमति मस्तके । अतिलोभप्रसादेन, सागरः सागरं गतः ॥३८२ ॥ मालवदेश प्रशंसा। मालवे पञ्चरत्नानि कंट भाटा पर्वताः। चतुर्थ वस्त्रहरणं पञ्चमं प्राणघातकाः ॥ ३८३ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy