________________
(६० ) . तृष्णा ।
आसंसार सरिनाथः किं तृप्यति सरिजलैः । सरित्पतिपयोभिवा किमेप वडवानलः ॥ ३६४ ॥ अन्तको जन्तुभिः किं वा, किमेधोभिक्षुताशनः । सुखैषयिकैरात्मा किं तथैव कदाचन ॥ ३६५ ॥ सत्कारयन्ति ह्यात्मानं, कृत्वाप्यागांसि मायिनः।
अत्युग्रपुण्यपापानां, फलमत्रैव जन्मनि ।। ३६६ ॥ पक्षपाती । सहजान्धदृशः स्वदुनये परदोषेक्षणदिव्यचक्षुषः स्वगुणोचगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥३६७॥ त्यजन्त्यसूञ्शम च मानिनो वरं, त्यजन्ति न त्वेकमयाचितव्रतम् ॥३६८ ॥ तत्र दायकशुद्ध तन्न्याय्यार्थो ज्ञानवान् सुधीः । निराशंसोऽननुतापी दायकः प्रददाति यत् ॥३६९ ॥ भाग्यहीनकी दशा।
खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके, वाञ्च्छन् देशमनातपं विधिवशात्तालस्य मूलं गतः। तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः, प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ।३७०। कायाकी शोभा कीससे है ? ।
श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिनं तु कङ्कणेन । विभाति कायः करुणापराणां, परोपकारैर्न तु चन्दनेन ।३७१।