SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अर्थ धर्म च मोक्षं च वेश्मेव गृहमेधिनः । . प्रासादितप्रवेशोऽयं खनत्याखुरिव स्मरः ॥ ३४८ ॥ कुसंसर्ग निन्दा। कुसंसर्गात्कुलीनानां भवेदम्युदयः कुतः। कदली नंदति कियबदरीतरुसंनिधौ ॥ ३४९ ॥ अधर्म निन्दा । चक्रवर्त्य प्यधर्मः सन् जन्म तल्लभते पुनः । कदन्नमपि संप्राप्तं यत्र राज्याय मन्यते ॥ ३५० ।। महाकुलप्रसूतोऽपि धर्मोपार्जनवर्जितः। भवेद्भवान्तरे श्वेव परोच्छिष्टानभोजनः ॥ ३५१ ॥ धर्महीनो द्विजन्मापि नित्यं पापानुबन्धकः । बिडाल इत्र दुर्वृत्तो म्लेच्छयोनिषु जायते ।। ३५२ ॥ बिडालव्यालशार्दूलश्येनगृध्रादियोनिषु । भवन्ति भूयिष्ठभवा भविनो धर्मवर्जिताः ॥ ३५३ ॥ धर्महीनाः कृमयः स्युरसकृच्छकृदादिषु । कुकुटादेले भन्ते च चञ्चुचरणताडनम् ॥ ३५४ ।। कर्मका फल । किं च प्रत्यक्षमीक्ष्यन्ते जलस्थलखचारिणः । प्राणिनो विविधं दुःखमापेदानाः स्वकर्मजम् ॥ ३५५॥ तत्र वारिचराः स्वैरं खादन्त्यन्योन्यमुत्सुकाः । धीवरैः परिगृह्यन्ते गिन्यन्ते च बकादिभिः ॥ ३५६ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy