________________
(५१) नरक प्राप्तिका साधन ।
तैलस्त्रीमांससंभोगी पर्वस्वेतेषु वै पुमान् । . विण्मृत्रभोजनं नाम प्रयाति नरकं मृतः ॥३०९॥ मूर्खताकी निशानी ।
शाठ्यन धर्म कपटेन मित्रं परोपतापेन समृद्धिभावम् । सुखेन विद्यां परुषेण नारी वाञ्छन्ति ये व्यक्तमप
ण्डितास्ते ॥ ३१०॥ शूर कोण है ?।
न रणे निर्जिते शूरो, विद्यया न च पण्डितः ।
न वक्ता वाक्पटुत्वेन, न दाता धनदायकः ॥ ३११ ॥ असत्य कहां फलदायी होता है ।
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्वधनापहारे पश्चानृतान्याहुरपातकानि ॥ रक्षक शत्रु कैसे होते है ?।
ऋणकर्ता पिता शत्रुः माता च व्यभिचारिणी। भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ।। ३१३ ।। क्लेशभाजन कोण है ।
पूर्वेषां यः कुलं कीर्ति पुण्यं नाधिकतां नयेत् । नातेनाप्यथ किं तेन जननीक्लेशकारिणा ? ॥३१४ ।।