________________
( १ ) कालिदास का उत्तर । कियदत्र जलं विप्र ! जानुदनं नराधिप ।
तदा केयमवस्था ते, न हि सर्वे भवादृशाः ॥ २४२ ॥ रामचन्द्र स्तुति । यद्भग्नं धनुरीश्वरस्य शिशुना यद् जामदग्न्यो जितः, त्यक्ता येन गुरोगिरा वसुमती बद्धो यदम्भोनिधिः। एकैकं दशकंधरस्य भयकृत् रामस्य किं वयेते, दैवं वर्णय येन सोऽपि सहसा नीतः कथाशेषतां ॥२४३।। देह असारता। यदि नामास्य कायस्य यदंतस्तद्वहिर्भवेत् । दण्डमादाय लोकोऽयं, शुनः काकाँश्च वारयेत् ॥२४४ ॥ उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभो, रागद्वेषकषायसन्ततिमहानिर्विघ्न वीजस्व या । रोगैरंकुरितो विपत्कुसुमितः कर्मद्रुमः साम्प्रतं सोढा नो यदि सम्यगेष फलितो दुःखैरधोगामिभिः ॥२४॥ साधुप्रशंसा। सावद्ययोगविरतो, गौरवत्रयवर्जितः । त्रिगुप्तः पंचसमितो रागद्वेषविनाकृतः ॥ २४६ ।। निर्ममो नगरवसत्यंगोपकरणादिषु । ततोऽष्टादशशीलांगसहस्रधारणोद्धरः ।। २४७ ।। निरन्तरं यथाशक्ति, नानाविधतपःपरः । संयम सप्तदशधा, धारयन्नविखण्डितम् ॥ २४८ ॥