SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्री ऋषिमंडल स्तोत्रम् । दिव्यो गोप्यः सुदुष्प्राप्यः, श्रीऋषिमंडलस्तवः । भाषितस्तीर्थनाथेन, जगत्राणकृतेऽनघः ॥ ४६॥ रणे राजकुले वह्नौ, जले दुर्गे गजे हरौ । श्मशाने विपिने घोरे, स्मृतो रक्षति मानवम् ॥५०॥ राज्यभ्रष्टा निजं राज्यं, पदभ्रष्टा निजं पदम् । लक्ष्मीभ्रष्टा निजां लक्ष्मी, प्राप्नुवन्ति न संशयः॥५१॥ भार्यार्थी लभते मायाँ, पुत्रार्थी लभते सुतम् ।। वित्तार्थी लभते वित्तं, नरः स्मरणमात्रतः ॥५२॥ स्वर्णे रूप्ये पटे कांस्ये, लिखित्वा यस्तु पूजयेत् । तस्यैवाष्टमहासिद्धिर्गृहे वसति शाश्वती ॥ ५३॥ भूर्जपत्रे लिखित्वेदं, गलके मूनि वा भुजे । धारितं सर्वदा दिव्यं, सर्वभीतिविनाशकं ॥ ५४॥ भृतैः प्रेतैर्ग्रहर्यक्षः, पिशाचैर्मुद्गलैर्मलैः । वातपित्तकफोद्रेकै-मुच्यते नात्र संशयः ॥ ५५ ॥ भूभुवःस्वस्त्रयीपीठ-वर्तिनः शाश्वता जिनाः। तैः स्तुतैर्वन्दितैदृष्टै-र्यत् फलं तत्फलं श्रुतौ ॥ ५६ ॥ एतद् गोप्यं महास्तोत्रं, न देयं यस्य कस्यचित् । मिथ्यात्ववासिने दत्ते, बालहत्या पदे पदे ॥ ५७ ॥ आचाम्लादि तपः कृत्वा, पूजयित्वा जिनावलिम् । अष्टसाहनिको जापः, कार्यस्तत्सिद्धिहेतवे ॥५॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy