________________
ww
श्री ऋषि मंडल स्तोत्रम् । (५) अस्मिन् बीजे स्थिताः सर्वे, वृषभाधा जिनोत्तमाः। वर्णेनिजैनिजैर्युक्ता, ध्यातव्यास्तत्र संगताः ॥ २१॥ नादश्चन्द्रसमाकारो, बिंदुर्नीलसमप्रभः। कलारुणसमासांतः, स्वर्णाभः सर्वतोमुखः ॥ २२ ॥ शिरःसंलीन ईकारो, विनीलो वर्णतः स्मृतः। वर्णानुसारसंलीनं, तीर्थकुन्मंडलं स्तुमः ॥ २३ ॥ चंद्रप्रभपुष्पदंतौ, नादस्थितिसमाश्रितौ । बिन्दुमध्यगतौ नेमि,-सुव्रतौ जिनसत्तमौ ॥ २४ ॥ पद्मप्रभवासुपूज्यौ, कलापदमधिष्ठितौ । शिरईस्थितिसंलीनौ, पार्श्वमल्ली जिनेश्वरौ ॥२५॥ शेषास्तीर्थकृतः सर्वे, हरस्थाने नियोजिताः । मायाबीजाक्षरं प्राप्ता,श्चतुर्विंशतिरहताम् ।। २६ ॥ गतरागद्वेषमोहाः, सर्वपापविवर्जिताः । सर्वदा सर्वकालेषु, ते भवंतु जिनोत्तमाः ॥ २७ ॥ देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा । तयाच्छादितसर्वाङ्ग, मा मां हिनस्तु डाकिनी ॥२८॥ देवदेवस्य० । मा मां हिनस्तु राकिनी ॥ २६ ॥ देवदे० । मा मां हिनस्तु लाकिनी ॥ ३०॥ देव० । मा मां हिनस्तु काकिनी ॥ ३१ ॥ देवदे । मा मां हिनस्तु शाकिनी ॥ ३२ ॥ देव० । मा मां हिनस्तु हाकिनी ॥ ३३ ॥
littl