________________
(३०)
श्री सप्त स्मरणादि नित्यस्मरण.
ॐ हाँ ही हुँ हूँ है हैं ह्रौं । असिमाउसा-ज्ञानदर्शनचारित्रेभ्यो ही नमः ॥ जंबूवृक्षधरो द्वीपः, क्षारोदधिसमावृतः । अर्हदायष्टकैरष्ट-काष्ठाषिष्ठरलंकृतः ॥ ११॥ तन्मध्ये संगतो मेरुः, कूटलबैरलंकृतः। उच्चैरुच्चैस्तरस्तार,-स्तारामंडलमंडितंः ॥ १२ ॥ तस्योपरि सकारांत, बीजमध्यास्य सर्वगम् । नमामि बिम्बमार्हन्त्यं, ललाटस्थं निरजनम् ॥ १३ ॥ अक्षयं निर्मलं शांतं, बहुलं जाड्यतोज्झितम् । निरीहं निरहंकारं, सारं सारतरं धनम् ॥ १४ ॥ अनुद्धतं शुभं स्फीतं, सात्विकं राजसं मतम् । तामसं चिरसंबुद्धं, तैजसं शर्वरीसमम् ॥ १५ ॥ साकारं च निराकारं, सरसं विरसं परम् । परापरं परातीतं, परं परपरापरम् . ॥१६ ।। एकवर्ण द्विवर्ण च, त्रिवर्ण तुर्यवर्णकम् ।। पंचवर्ण महावर्ण, सपरं च परापरम् ॥ १७ ॥ सकलं निष्कलं तुष्टं, निवृतं भ्रांतिवर्जितम् । निरंजनं निराकारं, निर्लेपं वीतसंश्रयम् ॥ १८ ॥ ईश्वरं ब्रह्मसंबुद्धं, बुद्धं सिद्धं मतं गुरुम् । ज्योतीरूपं महादेवं, लोकालोकप्रकाशकम् ॥ १६॥ अहंदाख्यस्तु वर्णातः, सरेफो बिंदुमंडितः । तुर्यस्वरसमायुक्तो, बहुधा नादमालितः ॥ २० ॥