SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ कः सबद्धो भवति समरे १, कः प्रियश्चाङ्गनानां ? को दुःसङ्गाद् भवति विदुषां १, मानपूजापहारः ॥५७५॥ पुष्पेषु माता पुरुषायमाणा लज्जावती विश्वसृजं विलोक्य । नाभीसरोजे नयनं मुरारेवातरं वारयति स्म वेगात् ॥५७३॥ जाता लता हि शैले, जातु लतायां न जायते शैलः । संप्रति तद्विपरीतं, कनकलतायां गिरिद्वयं जातम् ॥ ५७७॥ सहायक से शोभा बढ़ती है। वस्त्रहीनमलङ्कारं, घृतहीनं च भोजनम् । । स्वरहीनं च गान्धर्व, भावहीनं च मैथुनम् ॥ ५७८ ॥ प्रभु की बोध देने की कुशलता । सद्धर्मबीजवपनानघकौशलस्य, यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेषु हि तामसेषु, सूयांशवो मधुकरीचरणावदाताः ॥ ५७९ ॥ तावचंद्रबलं ततो गृहबलं ताराबलं भूवलं, तावसिद्ध्यति वांछितार्थमखिलं तावजनः सजनः । मुद्रामंडलमंत्रतंत्रमहिमा तावत्कृतं पौरुषं, यावत्पुण्यमिदं सदा विजयते पुण्यचये चीयते ॥ ५८० ॥ धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः,
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy