________________
१प्रव्रज्यावस्तु
२५
णात् मागंगमनातिशयत्वात् च यथानुक्रमेण भारच्छिन्ना मार्गच्छिन्नाश्च ॥ तालमुक्ताः ये सम्यग्भोजने असमर्थत्वात् उद्गिरन्ति ॥ केचिदेवं वदन्ति-ये निरुद्धक्रमणेन हतग्रन्थित्वात् गमनावरोधेन इव परिक्रमाकारिणः; ये च युवानः कर्षान्तयाध्यादिभिः तथैव असमर्थिताः अपर्यन्ताः, प्रबलजीर्णतया च उपक्लिष्ट Ba-?-सदृशाः सर्वकार्येषु असमर्थाःते कन्दलीच्छिन्ना इव, तैः न यौवनहानिः इत्यर्थः ॥
इति संग्राह्यगतम् ॥ समाप्तं च प्रव्रज्यावस्तु ॥
___(v) क्षुद्रकादिगतम् (१४९) कृत् राजभटः । अननुज्ञातं राज्ञा अदूरदेशिकम् ॥ इत्यस्मिन् 'न राजभटोऽसि' इति प्रव्रज्यात्वमुपसंक्रान्तं प्रष्टव्यम् । उपसंपादकैरपि राजभट: राज्ञाऽननुज्ञातः अदूरदेशिकः न प्रव्राजयितव्यः उपसंपादयितव्यश्च इति ॥ यः प्रव्रज्यावस्तुमागं गृह्णाति तस्मै एतेन उपदेष्टव्यम् । यो राजा वा तद्विजितः प्रभुर्वा, तेन येन केनचित् माण वा तत्पदसंबद्धः स अत्र अदूरदेशिकः ॥ (१५०) कृत् चौरो प्रज्ञातः ॥ इति राज्ञा नाऽननुज्ञातः अदूरदेशिकः इत्येतन्निराकरणाथं पुनः कृच्छब्दः। चौरो] [Plate II 5a]' नासि ध्वजबद्धकः इति प्रव्रज्या) उपसंक्रान्तं पृच्छेत् उपसंपादकाश्च, न चौरं ध्वजबद्धकं प्रव्राजयेयुः उपसंपादयेयुर्वा । इत्येतावता एवमपि अत्र विधानस्य भावः ॥ प्रज्ञातचौरो ध्वजबद्धकः। यत्र यस्य न प्रज्ञायमानत्वं न तत्र तस्य ध्वजबद्धकत्वम् ॥ (१५१) न रथकार-[चर्मकार]-चण्डाल-पुक्कल तद्विधान प्रवाजयेत् ॥ रथकारः चर्मकारः, तद्विधान् इति अभोक्ष्य-अनुश्रामणेरत्वशिक्षमाणत्व-उपसंपादनाऽनह त्वं रथकारादीनां अप्रवाजने निमित्तम् । तस्मात् आसा अपि एतदकरणीयत्वस्य प्रतिपादनम् ॥ (१५२) निदर्शनं हस्तच्छिन्नादयः ।। यदेतद् प्रव्रज्यावस्तुनि हस्तच्छिन्न-पादच्छिन्नेत्यादि उक्तं निदर्शनं तद्वेदितव्यम्, न परिसंख्यानम् ॥ येषामेतद् निदर्शनं तानीदानी उपन्यस्यति
हरिद्रकेशा हरिकेशा हरितकेशास्तथैव च । अवदातकेशाश्च ये नरा नागकेशा अकेशकाः । घाटीशिरा बहुशिरा अतिस्थूला विपाटकाः। खरसूकरशीर्षाश्च द्विशीर्षा अल्पशीषिकाः ।