________________
५८
विनयसूत्रवृत्त्यभिधान-स्व-व्याख्यानम् सघृणः परहरणः", सर्वेण सर्वं यद्भूयसा यस्य वा अभिप्राणातिपातप्रवर्ता। दस्युश्च अचौरभूतः निघृणो वध्यघातकादिः। तस्मात् पृथक्त्वमेवास्य भवति ।
(c) अनुज्ञा (६३७) पित-[Plate IV. 5a]'वत् पित्राशयत्वे अनुज्ञायां राजा ॥ पित्राशयत्वेन राज्ञाऽनुज्ञातः पितृभ्यामेवानुज्ञातो द्रष्टव्यः। राजानुज्ञया प्रवाजिते [अदोषो] ' द्रष्टव्यः इति भावः ।। (६३८) परिगृहीत्रोः अनुज्ञान-धारणा-प्रारोचनेषु पितृत्वम्॥ , असत्यपि जनकत्वे मातापितृपरिग्रहेण अवस्थितयोः अनुज्ञाने सप्ताहधारणे संघे च आरोचने [माता-पितृत्वं, न जनकयोरेव परिगृहीतृत्वेन अवस्थितयोः इत्यर्थः। “पुत्रकृतकं तावत्, भदन्त, उपसंपादयन्ति, कस्य सकाशा[दव]सारितव्यः ?-यस्य पुत्रत्वमुपगतः, एवं धीतिकृतिका यस्य धीतित्वं उपगतिका" इत्यत्र ग्रन्थः ॥ (६३९) न अमनुष्यगतिकयोः ॥ अनुज्ञानधारणाऽरोचनेषु पितृत्वं इत्यनुषङ्गः ॥ “यस्य तावत्, भदन्त, मातापितरौ कालगती भवतः, तिर्यग्योनिगतौ वा, तस्य केशावरोपणाय सर्वसंघोऽवलोकयितव्यः?नो हीदं, उपालिन् ।" इत्यत्र ग्रन्थः ॥ (६४०)न अत: प्रानन्तर्योत्थानम् ॥ अमनुष्यगतिकाभ्यां पितृभ्याम् आनन्तर्योत्थानम् ॥ (६४१) जनकाभ्यामेतद्, परिवृत्तव्यंजनाभ्यामपि ॥7 अपुस्त्वमपि मातृगतात्वेऽपि तुष्क Bbस्त्रीत्वं उत्थानमानन्तर्यस्य ॥ १८५२) एतद्-कृत्वं मातृघातकादौ तत्त्वम् ॥ एतत्कृत्वं आनन्तर्यकृत्वं, यद् मातृघातकादेः प्रव्राजनं प्रतिषिद्धं तत्र आनन्तर्यकृत्वं तत्त प्रतिपत्तव्यम् । आनन्तर्यकारी न प्रव्राज्यः इत्येवं पुनस्तद् । न सर्वमातृघातको न प्रव्राज्य इत्येवं च । तिर्यग्योनिगतमातृघातकस्य अप्रतिषिद्ध भवति प्रव्राजनम् ॥
. (d) संकीर्णम् कस्मिन् भिक्षुण्यां कृते भिक्षुणीदूषकत्वं जातं भवति, भिक्षुण्यापि भिक्षुदूषकत्वं भवति, केनाऽर्थेन एतदुभयमित्याह-॥ (६४३) दूषकत्वं प्रब्रह्मचर्येण स्वादयतोः, अपराजितत्वे ॥"कियता,भदन्त,भिक्षुणीदूषको वक्तव्यः?--येन अब्रह्मचर्येण,[उपालिन् '], भिक्षुणी दूषिता भवति" इति ग्रन्थः। किं यत्तच्चेतसोः अस्योत्थानमित्याह ?स्वादयतोः । गम्यऽपि दूषकत्वस्योस्थानं, गन्तर्यपि इत्यस्य संदर्शनार्थ अत्र द्विवचनम् । नो तु सहिते प्रतियोगिस्वादनेन दूषकत्वस्य उत्थानम्, इत्यस्य न हि अन्य-प्रदोषेण अन्यस्य संबंधः, इति अनङ्गत्वं अत्र प्रतियोगिस्वादस्य । वीतरागदूषणे च दूषकत्वानुत्थानप्रसंगात् । 'छन्दशः' इति यद्वचनं, एषोऽत्र आगमः। स्वेच्छया इत्यस्य अर्थः । पाराजितत्वेऽपि भिक्षु-भिक्षुणीत्वं विद्यते किम्, तदवस्थयोः नाऽप्यनयोः दूषणे दूषकत्व