________________
१ प्रव्रज्यावस्तु
मित्यत्र आह-अपराजितत्वे । ग्रन्थोऽत्र-"अष्टौ तावत्, भदन्त, पुद्गला प्रत्येकवस्तुभिः भिक्षुणीं दूषयन्ति । दुष्टा सा भिक्षुणी वक्तव्या ? दुष्टा, उपालिन्, वक्तव्या । कतराः तत्र पुद्गला भिक्षुणी-दुषका वक्तव्याः ?-आह, न कश्चिदिति । निपातने वा आमर्षणे वा अपराजितत्वं भिक्षुण्या इति हि एतद् अदूषकत्व-विज्ञानम् । कथं तहि ?–अन्येनार्थन निपतितायां, निकुब्जायां वा, अस्वीकुर्वत्यां, आमर्षण-परामर्षण-संप्रवेशने । निपात्यापि अस्वीकारे तया निपातनस्य । स्वयं वा संस्पृशन्त्या पुरुषगात्रं, पुरुषस्योपक्रान्तिः ॥ (६४४) अर्हत्वं प्रव्रज्योपसंपदोः उपगतौ पुंस्त्वस्य [Plate IV. 66]' हीनायां योषिति ॥ शिक्षा प्रत्याख्याय हीनायां वृत्तायां स्त्रियां व्यंजनपरिवृत्त्या पुंस्त्वोगतौ अहंत्वं प्रव्रज्योपसंपदोः। न-स्त्रीत्वावस्थायां इव अनर्हत्वं इत्यर्थः ॥(६४५) असाधारणं च पाराजयिक अध्याचरितवत्याम् ॥ 'अर्हत्वं प्रव्रज्योपसंपदोः उपगतौ पुंस्त्वस्य हीनायां योषिति'-इत्यनुबन्धः ॥ (६४६) आवासिकानां स्त्रीउपसंपादने अङ्गत्वं ।। पोषधवस्तु अत्र ग्रन्थः-"यदुक्त भगवता भिक्षुणीभिः भिक्षूणामन्तिके भिक्षुणीभावः पर्येषितव्यः इति कतमेषां भिक्षूणां आवासिक-नैवासिकानां, उपालिन्”, इति । तत्स्थानगता वासस्थं भिक्षुसंघ उपनिश्रित्य भिक्षुणीनां वासः। ततः कालेन कालं अववादअनुशासनीमार्गणात्, न च निश्रयातिक्रमो युक्तः इत्येतद् विज्ञानम् । आवासिकत्वमेवात्र विरोपिततरत्वेन विशिष्यमाणं. नैवासिकत्वं व्यवतिष्ठते । (६४७) ध्वंसो भवत्वस्य [उत्स]ष्टौ ॥ भवद्भाव्ये भवत्वं जायमानत्वमित्यर्थः । गृह्यमाणे संवरे तस्य संवरस्य यद्भवत्वं तस्य तदवस्थस्य उत्सृष्टौ प्रत्याख्यानादिना उत्सर्गे ध्वंसो भवति । आवेध एष संवरस्य यज्जायमानत्वम् । न च आनेघस्य प्रत्युदावृत्तिः लङ्घनादौ दृश्यते । तस्मात्, न भवत्यस्याज्जायमानत्वे संवरस्य प्रत्युदावृत्तिः इति यो मन्येत तन्नाभिनिवृत्त्य थं एतत्सूत्रम् । मुक्तकेषु अत्र ग्रन्थ:--"उपसंपन्नस्ताबत्, उपालिन्, गृहित्वं प्रतिजानानो अनुपसंपन्नो वक्तव्यः । प्रागेव उपसंपद्य 'मान इति ॥ पृच्छा प्रायं प्रव्रज्यावस्तुगतम् ।।
विनयवृत्तौ [स्वव्याख्या 'नतः] प्रव्रज्यावस्तु समाप्तम् ।।