________________
_१ प्रव्रज्यावस्तु यस्य विदूषकस्य इवाऽन्तरागुल्मेन अवस्थिताः केशाः । अन्तर्बहिद्विकुब्ज इति प्रत्येक कुब्जशब्दस्य परिसमाप्तिः, अन्तः कुब्जो बहिः कुब्जः अन्तर्बहिः कुब्ज इति, उक्तमेतद् अन्यत्र-'काणः, कुणिः, कुब्जोऽथ, वाम' इति, प्रभेदसंदर्शनार्थं त्वेतद् । षट्-सहिताऽनङ्गुलि [रिति] अङ्गुलिशब्दस्य प्रत्येकं परिसमाप्तिः। षड्ङ्गुलिः सहिताङ्गलि: अनङ्गुलिश्चेति । षडङ्गुलित्वं, सहिताङ्गुलित्वं, अनङ्गु] [Plate IV. 5b]'लित्वमात्रकम् । अङ्गुलिफणाहस्तकत्वेनाऽत्र सक्ताङ्गुलित्वस्य अन्तर्भावः। पक्ष्म-नकुल-किपिल-विपरीत-मिलित-शिक्य-कश्मीलित-अक्षाक्ष-इति अक्षशब्दस्य प्रत्येक समाप्तिः-पक्ष्माक्षः, नकुलाक्षः, किंपिलाक्षः, विपरीताक्षः, मिलिताक्षः, शिक्याक्षः, कश्मीलिताक्षः, अक्षाक्षः । पक्ष्माक्षो, यस्य अक्ष्णोऽन्तः 7 चर्मपुटे पक्ष्मसंभवः। [नकुलाक्षः यस्य अक्षः नकुलाक्षवत् ।] उलूकाक्षः किंपिलाक्षो [कपिलाक्षाक्षत्वात् ]" रक्षाक्षः सदृशाक्षो वा। अपाङ्गसमीपवति यो अक्ष्यवयवः स यस्य नासासमीपे, तत्समीपवति च अपाङ्गं समेत्य, असो विपरीताक्षः । यस्य विगतनासावंशे परस्परं अक्षिणी-संश्लिष्टे, असौ मिलिताक्षः। शिक्याक्षो, यस्य शिक्यवत् अतिलंबिते अक्षिणी। गलितपक्ष्मरोमत्वात् विगलद्रक्तमासवत् अक्ष्णः पर्यन्तो यस्य असो कश्मीलिताक्षः। अक्षाक्षः' इति अक्षयोः अक्षिणी यस्य असो अक्षाक्षः। अक्षिशाल-शन्त्र-दर्दू-विचिका इति अक्षिशब्दस्य प्रत्येकं निपातः । अक्षिशालः, अक्षिशन्त्रः, अक्षिदर्दुः अक्षिविचिका॥ अतिविशाले यस्य अक्षिणी असौ विशालाक्षः ॥ पीतावदातरक्तनाडीकर्ण इति कर्णशब्दस्य प्रत्येकं निपातः-पोतकर्णः, अवदानकर्ण, रक्तकर्णः, नाडीकर्ण इति ॥ कण्डु-पिण्ड-स्थूलकच्छुरिति कच्छुशब्दस्य प्रत्येकं संबन्धः-कण्डुकच्छुः, पिण्डकच्छुः, स्थूलकच्छुरिति । अण्डलाङ्गलप्रतिच्छन्न इति अण्डाभ्यां लागूलः प्रतिच्छन्नः अस्य इति अण्डलाङ्कलप्रतिच्छन्नः ॥ मूढ-अजिह्वएकहस्तपाद इति, मूढ इत्यनेन उपसंपदं न जानातीत्यस्य संगृहीतत्वम् ॥ अजिह्व इति [जिह्वाही]"नस्य। मूकबधिर इति मूकग्रहणेन सत्यां जिह्वायां वक्तुमसमर्थः जिह्वाहीनः, अन्यस्य अजिह्व इति उक्तत्वात् ॥ [एकहस्तपादः” इति एकशब्दस्य] हस्तपादशब्दयोः प्रत्येकं संबन्धः-एकहस्तः, एकपादः, अहस्तपाद इति ॥ नीलकेश इति अहरितभूतं नीलं, तस्मात् हरितग्रहणेन नीलस्योक्तत्वम् ॥ हस्ति-अश्व-श्व-गो-मेष-मृग-मत्स्यअहि-दीर्घ-बहुशीर्ष इति शीर्षशब्दस्य प्रत्येकं अभिसंबंध:-हस्तिशीर्षः अश्वशीर्षः, श्वशीर्षो, गोशीर्षः, मेषशीर्षः, मृगशीर्षः, मत्स्यशीर्षः, अहिशीर्षः, दीर्घशीर्ष, बहशीर्षः इति । 'सर्वनीलः सर्वपीतः सर्वलोहितः सर्वावदात' इति एतदपि यत्पठ्यते, एषामपि चतुभिः भूतं छवि-वर्णैः इत्युक्तत्वम् ।। तालकण्ठ[वत्-शूल-७]शूलच्छिन्न-ईर्यापथच्छिन्न इति ॥ (६३६) चौरेण दस्योः।। आक्षिप्तत्वमिति अनुषङ्गः। पापवृत्तिरूपता सामान्येन । ननु नैव अस्य अतः पृथक्त्वम् ?–भवनि हि अदस्युभूतोऽपि चौरः