________________
विनयसूत्रवृत्त्यभिधान-स्व-व्याख्यानम् संवरस्येत्यनुषङ्गः ।। (६३१) प्रतिज्ञानेऽस्य असतो दाने ॥ असतो इति असंविद्यमानस्य, समादात्रा [Plate IV. 4a]'अन्तरायिकस्य 'अस्ति मेऽन्तरायिकम्' इति प्रतिज्ञाने संवरस्य दाने दुष्कृतमात्रकं. न अनुत्थानम् ॥ निदानेष्वत्र ग्रन्थः"अन्तरायिकैः तावत् भदन्त धर्मैः समन्वागतम्, 'समन्वागतोऽस्ति' इति वदन्तं उपसंपादयन्ति। उपसंपन्नो वक्तव्योऽनुपसंपन्नो वक्तव्यः, आह–'उपसंपन्नः', उपसंपादकास्तु सातिसाराः" इति । तद् अत्र अन्तरायिकं अभिप्रेतं व्यवतिष्ठते, यद्विधे तु अहमुपसंपन्नः ॥ (६३२) न पुरुषानुकृतित्वं स्त्रिया, स्त्र्य नुकृतित्वं च पुरुषस्य व्यंजनान्तरप्रकारः ॥ नात्र अनुत्थानं संवरस्य, एतत्प्रदर्शनंव्यञ्जनान्तरस्य प्रकारत्वात् अत्रोत्थानं न स्यात् । न चैतदेष भवति-॥
(b) प्राक्षिप्तत्वम् । (६३३) प्राक्षिप्तत्वमस्य हस्तच्छिन्नादिना ॥ अस्य पुरुषस्य अनुकृतित्वस्य हस्तच्छिन्नाः पादच्छिन्ना इत्यादिना आक्षिप्तत्वम्, आक्षिप्तत्वाच्च दुष्कृतमा[त्रमित्युक्तं भवति ॥ (६३४) पापलक्षण-भिन्नकल्पद्वीपान्तरजयोः ।। अनयोरपि हस्तच्छिन्नादिना आक्षिप्तत्वमित्यर्थः ॥ "पापलक्षणं उपसंपादयन्ति" [इति] यावदुपसंपन्नो वक्तव्यः। भिक्षवस्तु उपसंपादकाः आपद्यन्ते दुष्कृतामिति" पापलक्षणे ग्रन्थः ॥ [निदान]37-द्वीपान्तरजोऽपि ग्रन्थः-जम्बुद्वीपका भिक्षवः पूर्वविदेहकमुपसंपादयन्ति, उपसपन्नो वक्तव्यः'........ यावद्-'उपसंपन्नः, उपालिन्' । 'उपसंपादकास्तु सातिसाराः' । [इति]37 विस्तरेण चक्रपेयालं कर्तव्यम् ॥ संस्थान-प्रमाण-दशाभेदो मनुष्याणां यत्र द्वीपे तन्मात्रव्युदाशसवरं अत्र द्वीपग्रहणं व्यवतिष्ठते । एतदत्र भिन्नकल्पग्रहणेन विशेषितमुखादिभेदोऽपि अत्र कल्पभेदोऽभिप्रेतः । एवं च एकद्वीपकानामपि एष मुख-कर्णप्रावरणादीनां प्रतिक्षिप्तत्वं वेदितव्यम् ।। (६३५) एकनख- समुद्रलेख- पक्षहत- लिङ्गशिरो-गुल्मकेश- अन्तर्बहिद्वि- कुब्ज-षट्सहिताऽनङ्गुलि-पक्ष्म-नकुल- किपिल-विपरीत -मिलित-शिक्य-कश्मीलित-अक्षाक्षप्रक्षिशाल-शन्त्र-द -विचिक-पीत-अवदात रक्त-नाडीकर्ण-कण्डु-पिण्ड-स्थूलकच्छ. अण्डलाङ्गलप्रतिच्छन्न-मूढ-अजिह्व-एकहस्तपाद-[अहस्तपाद] 'नीलके रा-हस्त्यश्वश्वगोमेषमृगमत्स्याहि-दीर्घबहुशीर्ष-तालकण्ठशूलेर्यापथच्छिन्नेभ्यश्च अनाबाधिकानां, ग्लानेन च इतरेषान् । एकनखादीनां च अध्युक्तानां [हस्त]'च्छिन्नादिना आक्षिप्तत्वं, इतरेषां तु आबाधिकानां, ग्लानेन 'माऽसि ग्लानः' इत्यनेन आक्षिप्तत्वं इत्यर्थः ।। एकनखो, यस्य एकमेव नखम् । समुद्रलेखो, यस्य मुद्रायुक्तमिव लेखं शरीरावयवः । पक्षहेतो, यस्य एकं पार्वं शुष्कम् । लिङ्गशिरा, यस्य लिङ्गाकारं शिरः। गुल्मकेशो