________________
चतुर्थ परिशिष्टम्
APPENDIX IV परमार्थगाथाव्यवस्थान-आभिप्रायिकार्यगाथाव्यवस्थान-शरीरार्थगाथा
व्यवस्थानानि (चिन्तामयीभूमिगतपाठानुसारतः) SANSKRIT TEXT OF PARAMĀRTHĀGĀTHÁVYAVASTHÂNA. ABHIPRĀYIKĪGĀTHĀVYAVASTHANA
AND SĀRĪRĀRTHAGĀTHAVYAVASTHANA.
धर्मप्रविचयः कतमः । स द्विविधो द्रष्टव्यः । सूत्रार्थप्रविचयतः । गाथार्थप्रविचयतः । तत्र सूत्रार्थप्रवितयम्वस्तुसङ्ग्राहण्यां बोधिसत्त्वपिटकोपपा[ वा ]द च विस्तरेण वक्ष्यामि । गार्थार्थप्रविचयः पुनस्त्रिविधो द्रष्टव्यः। परमार्थगाथाव्यवस्थानतः। आभिप्रायिकार्थगाथाव्यवस्थानतः । शरीरार्थगाथाव्यवस्थानतश्च ॥
स्वामी न विद्यते कश्चिन्न कर्त्ता नापि वेदकः । धर्माः सर्वेऽपि निश्चेष्टाः अथ चेद् वर्तते क्रिया ॥1॥ द्वादशैव भवाङ्गानि स्कन्धायतनधातवः। विविच्य सर्वाण्येतानि पुद्गलो नोपलभ्यते ॥ 2 ॥ शून्यमाध्यात्मिकं सर्व शून्यं सर्वं बहिर्गतम् । न विद्यते सोऽपि कश्चिद्यो भावयति शून्यताम् ॥ 3 ॥ आत्मैव ह्यात्मनो नास्ति विपरीते न कल्पयेत् । नैवेह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः ।। 4 ।। क्षणिकाः सर्वसंस्काराः अस्थितानां कुतः क्रिया। भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ॥ 5 ॥ चक्षुः पश्यति नो रूपं श्रोत्रं शब्दां [ दान् ] शृणोति न [ नो]। ध्राणं जिघ्रति नो ग्रन्धां [ धान् ] जिह्वा नास्वादयेद्ररसां [ सान् ] ॥6॥ कायः स्पृशति न स्प [5] न्मिनो धर्मान्न कल्पयेत् । नास्ति चैषामधिष्ठाता प्रेरको विद्यते न च ॥7॥ न परो जनयत्येनं स्वयं नैव च ज [1] यते । प्रतीत्य भावा जायन्ते निष्पुराणा नवा नवा [:] [1] 8॥