________________
Appendix-tit
15 यतो [विच्छेदयतो] वा अपरिगृहीतासु वा पुनः परिगृहीतकामता[2]मुपादाय अवीतरागाणां सत्त्वानां पूर्ववद्यावन्नानावादो विवादो विप्रत्यनीकवादः अयमुच्यते विवादः।
अपवादः कतमः [1] संरब्धानां संक्लिष्टचेतसामन्योन्यमुत्सृत्याविप्रकृति]तां कथायाः पारुष्योपसंहितः असभ्योपसंहितः संभिन्नप्रलापोपसंहितो वादः यावद्दुराख्याते धर्मविनये धर्मदेशनासांकथ्यविनिश्चयः[3]अपवादानुशासनम् । अयमुच्यते अपवादः ।
___ अनुवादः कतमः । या [यः] स्वाख्याते धर्मविनये धर्मदेशनासांकथ्यविनिश्चयोपशासनमुत्पन्नस्य संशयच्छेदाय [यः] गम्भीरस्यार्थपदस्य प्रतिवेधाय ज्ञ[1]नदर्शनस्य शुद्धये । मोषस्यानुकूल: आनुलोमिको वादः तस्मादनुवाद इत्युच्यते । अयमुच्यते अनुवादः॥
अववा[4]दः कतमः । अधिचित्ते अधिप्रज्ञे प्रयोक्तुकामस्य पुद्गलस्यासमाहितस्य वा चित्तस्य समाधानाय समाहितस्य वा चित्तस्य विमोक्षाय यो वादः तत्त्वज्ञ[T]नावबोधाय तत्त्वज्ञ[]नावगमाय वादः तस्मादव वाद इत्युच्यते [1] अयमुच्यते अववादः [1]
एषां षण्णाम्वा[षण्णां वा] दानां कति वादा भूतास्तत्त्वा अर्थोपसंहिताः सेवितव्याः । कति वा[5]दाः अभूताः अतत्वा अनर्थोपसंहिताः परिवर्जयितव्याः [1]
द्वी पश्चिमी वादी भूतौ अर्थोपसंहितो वेदितव्यो। द्वौ मध्ये वादी अभूतो अतत्वो अनर्थोपसंहितौ वर्जयितव्यौ [T] आद्ययोर्द्वयोर्वादयोर्भेदः । 10॥
वादाधिकरणं कतमत्तदपि [कतमत्[1]तदपि] षड्विधं द्रष्टव्यं[]तद्यथा राजकुलं युक्तकुलं पर्षत्सभा धर्मार्थकुशल[r] : [6] श्रमणा ब्राह्मणा धर्मार्थकामाश्च सन्ताः [सन्तः ] || 0 |
बावाधिष्ठानं कतमत् । तद्दशविधं द्रष्टव्यम् । साध्योऽर्थो द्विविधः । साध्यस्यार्थस्य साधनमष्टविधम् ।
साध्यो[s]र्थो द्विविधः कतमः[1] स्वभावो विशेषश्च । तत्र स्वभावः साध्यः सच्च सतः असच्चासतः। विशेषः साध्यः, सोत्तरश्च सोत्तरतोनुत्तर चानुत्तरतः । नित्यो नित्यतः अनित्यः 2B-7[1] अनित्यतः रूपी रूपितः अरूपी अरूपितः[ यथा रूपी अरूपी तथा सनिदर्शनः अनिदर्शनः, सप्रतिषः अप्रतिषः, सास्रवः अनास्रवः, संस्कृतः असंस्कृत इत्येवमादिना प्रभेदनयेन ॥ विशेषस्य साध्यता द्रष्टव्या ।
साधनमष्टविधं कतमत् । प्रतिज्ञा, हेतुः, उदाहरणं, सारूप्यं, वैरूप्यं प्रत्यक्षमनुमान [2]म[7]प्तागमश्च ।