________________
तृतीयं परिशिष्टम्
APPENDIX-III HETUVIDYA OF ASANGA ( FROM श्रुतमयीभूमि )
हेतुविद्या 2b-613] हेतुविद्या कतमा। परीक्षाश्च नयद्विज्ञानं वस्तु । तत्पुनः क [4]तमत् । तद्यथा वादः वादाधिकरणं वादाधिष्ठानं वादलङ्कारः वादनिसरणं वादे बहुकरा धर्माः।
वादः कतमः । स षड्विधो द्रष्टव्यः। वादः प्रत्यय[T]ववादः [प्रवादः] विवादः अपवादः अनुवादः अववादश्च ।
वादः कतमः [1] सर्ववाग्व्याहारो वाग्भाषो वाग्नि [ङ्नि] रुक्तिर्वाद इत्युच्यते । प्रवादः कतमः । यो लोकाश्रवि [यि] ? को [5] वादः।
विवादः कतमः। कामान्वा आरभ्य स्वपरिगृहीतेषु कामेषु परपरिगृहीतेषु कामेषु परेषामाच्छेत्तुकाम इष्टसत्त्वपरिगृहीतेषु कामेषु परेषामाच्छेत्तुकाम इष्टसत्वपरिगृहीतेषु कामेषु आच्छिद्यमानेषु आच्छेत्तुकामस्य वा, अपरिगृहीतेषु कामेषु तद्यथावदानकर्तक-हासकलासकाद्युपसंहिते[6]षु वा पुनः संदर्शनाय वा-उपभोगाय वा इति । यदेवंप्रकारेषु कायेषु अवीतरागाणां सत्त्वानां कामरागरक्तानामध्यवसानहेतोविपत्त्यहेतोः परिग्रेध[ग्रह ?]हेतोः संरागहेतो (:) संरब्धानां विगृहीतानां, विवादमापन्नानां नानावादो विवादो विप्रत्यनीकवादो दुष्चरितं वा पुनरारभ्य स्वयंकृते कायदुश्चरिते वाग्दुश्चरि [7] ते परैरनुयुज्यमानः परकृते कायदुश्चरिते वाग्दुश्चरिते यदाऽयं जन इष्टसत्त्वकृते कायदुश्चरिते वाग्दुश्चरिते कतु प्रणिहितस्य इति । यदेव प्रकारे दुश्चरितसमाचारे-अधिगतदोभाषा]ना[णा]मविगतद्वेषाणाम[8]धिगतमोहानां लोभद्वेषमोहाभिभूता[ना]मध्यवसानहेतोविनिबन्धहेतोः परिग्रेधहेतोः संरागहेतोरन्योन्यं संरब्धानां संजिष्वभिन्नताहेतोः विगृहीतानां विवादमापन्नानां नाना वादो विवादो विप्रत्यनीकवादः दृष्टि वा पुनरारभ्य त 2A:7 [1] द्यथा सत्कायदृष्टि विषमहेतुदृष्टि शाश्वतदृष्टिम्वार्षगण्यदृष्टि मिथ्यादृष्टिमिति । या वा पुनरन्यापायिका [की] दृषिट इ [दृष्टिरि] त्येवं भागीय दृष्टिसु स्वपरिगृहीतासु परैर्विच्छिद्यमाने परपरिगृहीतासु परान्विच्छिन्दयतः। इष्टसत्त्वपरिगृहीतासु परैविच्छिद्यमानस्य वा विच्छिन्द
1. Letters indistinct.