SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Appendix-I गोत्रस्थाः पुद्गलाः (b) आसन्ने (अन्तिके, Vide, P. 22) पुद्गल : __ आसन्ने पुद्गलः । कतमः। [आह]58 । अस्ति पुद्गलः कालस्यासन्नतया निर्वाणस्यान्तिके। प्रयोगस्यासन्नतया चाप्यस्ति निर्वाणस्यान्तिके। तत्र कतमः कालस्यासन्नतया निर्वाणस्यान्तिके 159 कायेऽन्तिमस्थानभावे स्थितः तेन कायेन परिनिर्वाति । तस्मिन् क्षणे आनन्तर्यक्लेशप्रहाणं साक्षात्करोति । [एवं] कालस्यासन्नतया परिनिर्वाणमप्यासन्नम् । योगस्यासन्नतया परिनिर्वाणस्यान्तिके0 कतमः ।1 यो गोत्रस्थो गोत्रे च प्रतिपन्नः। एतत् सर्वमेकत्यमभिसङ्क्षिप्योच्यत आसन्ने पुद्गल इति । अपरिपक्वः पुद्गलः कतमः । आह । यस्य पुद्गलस्य स्थित्वा परिनिर्वाणम्, सम्यक्त्वेन' निष्क्रान्तश्चरमकायोऽप्राप्तः सोऽपरिपक्वः पुद्गलः।। परिपक्वः पुद्गलः कतमः। आह यस्य पुद्गलस्य2 स्थित्वा, परिनिर्वाणम्, सम्यक्त्वेन निष्क्रान्तश्चरमकायः समुदागतः स परिपक्वः पुद्गलः। - अविशुद्धः पुद्गलः कतमः। आह । येन पुद्गलेन आर्यमार्ग उत्पादितस्तत्फलञ्च [यत्] तन्न साक्षात्कृतम् । सोऽविशुद्धः पुद्गलः। विशुद्धः पुद्गलः कतमः । आह । स एतद्विपरीतत्वेन वेदितव्यः । सर्व इमे गोत्रस्थाः पुद्गला इति वेदितव्यम् । तद्यथा ये अनिष्क्रान्तास्तेषां प्रविष्टीकरणम् । प्रवेशः, ये परिपक्वास्तेषां परिपाकः, ये विशुद्धास्तेषां सर्वेषां विशुद्धिः । एषामर्थाय बुद्धा भगवन्तो लोक उत्पद्यन्ते धर्मचक्राणि च प्रवर्त्तयन्ति, शिक्षावस्तूनि च प्रददति । स्वभावस्तद् व्यवस्थानं लिङ्गं पुद्गल एव च । गोत्रभूमिरिहज्ञेया सर्वमेतत् समासतः ।।१० ॥श्रावकभूमो गोत्रभूमिः समाप्ता ।। 57. This portion is also not available in the MS., the text hereafter is lost in the original, but preserved in the Tibetan (and Chinese) translations, on which this reconstruction is based. 58. Tib. Adds here यः 59. Tib. अन्तिकत्वम् 60. Tib. omits एवम् 61. [पुद्गलः ] may be added before कतमः 62. Tib. यस्मिन् पुद्गले. 63. May also be सम्यक्तया. 64. May also be प्रविष्टः , Tib : nespala' jug/pa. 65. Tib. omits this. 66. This reconstruction is based on the Tibetan Version of the text preserved in the Tibetan Tripitaka, Vol. 110, P. 35 sq. ed. by Prof. D. T. Suzuki, Tokyo-Kyoto, 1957,
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy