________________
[ ३७ ]
[ आर्या ] प्रभवति भवति वति पदं, कस्मान्नु मनुर्नमोऽङ्गिरः सूत्रात् । वति तसि य आमि किं वा, केन स्यात्तत्कृते यतताम् ॥ ९१ ॥ ( पञ्जिका )
(१) वति प्रत्यये परे भवति सति मनुर्नभोऽङ्गिरइति त्र्यं पदसंज्ञकं किं सूत्रतः खलु प्रभवति ? (२) वति प्रत्यये तसि प्रत्यये ये प्रत्यये आमि प्रत्यये च परे सति केन सूत्रेण का संज्ञा विधीयते ? ॥९१॥ [ मुजङ्गप्रयातम् ]
भवेद् युष्मदो ङङसा यत्स्वरूपं, पृथिव्यर्थ वाच्येकवर्णो भवेद्यः । प्रभातार्थमन्यद्भवेद्यत् प्रसिद्ध, विलोमं तदा बुध्यतामत्र सूत्रम् ।। ९२ ।।
( पञ्जिका )
युष्मच्छन्दस्य प्रत्ययेन उस्प्रत्ययेन च यद्रूपं स्यात् धरित्रीबोधक एकवर्णात्मको यः शब्दः प्रसिद्धः प्रभातार्थमन्यद्यत् प्रसिद्धं नामतत्त्रयमेकत्रीकृत्य विलोमं च विधायात्र यदभिलषितं सूनमस्ति तदव - गम्यताम् ॥९२||
"
[ उपजातिः । विप्रं भवेत् क्रोशचतुष्टयं यत्, नरं कजामन्त्रणमन्त्यमुक्तम् । प्रयोजनं चेत् तव सूत्रतस्तत्, सत्तद्धितं चेनसि चेतनीयम् ॥ ९३ ॥
( पञ्जिका )
तादृशमेकमास्ते सूत्रं यत् खलु प्ररहितं सत् क्रोशचतुष्टयाभिधायकं भवति । चरमवर्णवियुक्तं यदवशिष्टं तदपि रेफविरहितं सद् सरसीरुहार्थक शब्द सम्बोधनं स्यात् । यदि तव तत्सूत्रतोऽस्ति प्रयोजनं तदा मनसि तद्धितप्रकरणं विचारणीयम् । तद्धितप्रकरणे सप्तमाध्यायेऽस्ति - तत्सूत्रम् ||९३ ||