SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ [ ३६ ] चरणं परिहत्य शेषपादत्रये तादृशं पदत्रयमारते यन संयोजनेन हैमीयं सूत्रमाविर्भवतीति ॥८॥ [ उपजातिः ] स्मरो व्यधायि स्मृतिमात्रशेषः, स्यात् कालकूटाद् भवन मृत्युः । सूत्रं नवेष्टं यदि पञ्चवर्ण, कूटं तदा द्राक् त्वयाऽपमार्यम् ॥८९॥ ( पञ्जिका ) चेत् त्वया मारो मरणं प्रापितस्तदा त्रिलोचनवत् हालाहलतोऽपि निधनं न भविष्यति । अत्र तव यदि हैमीयं पुत्रं पञ्चवर्णात्मकं प्रियं तदा 'कालकूटाद्भववत्' इत्यस्माद् झगिति कूटमपाक्रियताम् , एवञ्च सूत्रमभिव्यक्त भविष्यत्येवेति ।।८।। [ श दूलविक्रीडितम् ] यन्मूतिर्जनतामनोनयनहत, मल्लक्षणैलेक्षिता, यद्वाणी मधुरा सुधाधरकरी, स्पष्टा विशिष्टाक्षरा । यस्यास्ति प्रतिभा सदैव विशदा, सद्भावभावोद्भवा, व्याख्याने न च तस्य किं ततयशोग्रन्थावेगौरवम् ॥१०॥ ( पञ्जिका ) यस्याकृतिः प्रशस्तचिह्नचिह्निता सती जनसमूहान्तःकरणलोचनहारिणी भवति । यस्य गीर्माधुर्यधुरीणा पीयूषापकर्षकारिणी विशदा उत्तमवर्गाऽविचला अस्ति । यस्य धीनित्यनिर्मला समीचीनभावप्रभावसम्पन्ना वर्तते तादृशस्य मुनीश्वरस्य प्रवचने विस्तृतयशःशास्त्रतो गौरवं कि न स्यात् ? अपि तु स्यादेव । अत्र 'तस्य व्याख्याने च ग्रन्थाव' इति व्याकरणसूत्रं संयोजितमास्ते ॥९॥
SR No.002446
Book TitleLakshan Vilas
Original Sutra AuthorN/A
AuthorDhurandharvijay Gani
PublisherJain Sahityavardhak Sabha
Publication Year1916
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy