________________
. [ १९] याव , तथा स्त्री न, स्वामी पुरुष एव भवति, अर्हन्नपि ना किल स्यात् । नतु स्त्री कदापि स्वामिपदं जिनपतिपदश्च प्राप्तुमीशा । हीनसत्त्वस्यक्लीवस्य क्षेपे तिरस्कारे विहिते सति किं हानिः स्यात् ? गौरवरहितस्य तस्य किं गौरवमपेयाव ? न किमपीति यावत् ॥४५॥
[ दुनविलम्बितम् ] जगति को गतिसत्वबलाधिकः, कुलमलक्रियते विमलं कया । प्रतिवचोवचनं रचनोडुरं, मधुरमर्थधुरंधरसूत्रतः ॥४६॥ .
.. ( पञ्जिका ) .. (१) गमने सत्त्वगुणे वीर्ये चाधिकः कः स्याद्विश्वे ? (२) अमलं भवनं कुलश्च कया विभूष्यते ? गुम्फोद्धतं प्रियं सदर्थावहमुत्तरवचन सूत्रतो धर । यद्वा अर्थप्रकाण्डसूत्रात् प्रतिवचो वचनमाप्यमिति ॥४६॥
. [ आर्या ] कालमनन्तं भ्रान्तो, बन्धादरितस्य नित्यवैरस्य ।। आत्मअनन्तवीर्य प्रयुज्य लघु नित्यवैरं स्य ॥४७॥
- (पञ्जिका ) अयि आत्मन् ! त्वं तव सनातनवैरवतः कर्मणः पापस्य सम्बन्धात् अनन्तं कालं यावद् भ्रान्तोऽसि । अधुनाऽनन्तं सामर्थ्यमुपयुज्य त्वरितं नित्यवैरं विनाशय, निजैश्वर्यमधिगच्छेतियावद । नित्यवैरस्येति सूत्रं प्रस्तुतं प्रस्तुते, अनुस्वाराद्याधिक्यस्य यमके न दोषावहत्वमित्यवसेयम् ॥४७॥
1 [वसन्ततिलका ] __ कालेजतः शरदिजाज्ज्वरतो विभीयाद्,
रटति प्रावृषिजाद्विकारात् ।