SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ [१०] ( पञ्जिका ) (१) ज्ञानमन्तरेण विरलविषयाऽपि समुत्कटमदना सती वा का क्षेमं न दत्ते ? (२) अनुमाने विधातव्ये सति इह प्रमाणशास्त्रे व्याप्तिस्थलभूतः कोऽभीष्ट: ? (३) नामसंज्ञकात् विभक्तीनां नियमनतत्परं प्रकरणं किम् ? इति प्रश्नत्रय व्याकरणार्थं चेद एवं पाण्डित्यं धरसि तदा एकान्ते सर्वजनसमक्षं यदि तव त्रपा भवति तदा - निर्जने प्रकटीकुरूत्तरम् ॥२२॥ [ वसन्ततिलकम् ] कीदृग् भवेन्निजकृतेः करणे समर्थो, नैयायिकैरभिमतो जगतः प्रभुः किम् ? | अभ्यस्तमस्तरुगनस्तसमस्ततन्त्र, सूत्रं विचार्य विशदं वद हैममन्त्रम् ||२३|| ( पञ्जिका ) (१) स्वकीयकार्यस्य विधाने सामर्थ्याकलितः कीदृशः स्यात् ? (२) न्यायदर्शनानुसारिभिरीश्वरो विश्वस्य किमभिमत: ? अत्र प्रतिवचसेऽभ्यासविषयीकृतं जाड्यादिरोगहरं समस्ततन्त्रोपजीवनं है मलक्षणमननात्मकं सूत्रं विचारपदवीमापाद्य स्पष्टं ब्रूहि ॥ - ३ || [ अनुष्टुप् ] ↑ प्रादुर्भवेत् फलं कस्य गमकं व्यापकस्य किम् । संसारकारणं किं स्यात् सूत्रात् प्रतिवचो वृणु ॥ २४॥ ( पञ्जिका ) (१). फलं कस्य प्रकटं स्यात् ? (२) अधिक देशवृत्तिनो व्यापकस्यावगमकं किं भवति ? (३) भवचक्रपरिभ्रमणनिदानं किं भवेत् ? एतत्त्रयोत्तरत्रितयं श्री हेमशब्दानुशासन सत्कसूत्रतः प्राप्नुहि ||२४||
SR No.002446
Book TitleLakshan Vilas
Original Sutra AuthorN/A
AuthorDhurandharvijay Gani
PublisherJain Sahityavardhak Sabha
Publication Year1916
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy