________________
[<]
[ अनुष्टुप् ] कामः काष्टगुणः पुंसः कस्यां माया महोद्धता । कस्यां सत्यां न मुक्ताः स्यु- स्तदर्थं स्मर लक्षणम् ॥ १७॥
( पञ्जिका )
(१) पुरुषापेक्षया मदनोऽष्टगुणाधिकः कुत्र ? (२) प्रबला निकृतिः कस्याम् ? (३) कस्यां विद्यमानायाम् - स्वसम्बन्ध सम्बन्धितायामिति यावद ( चेतना: ) शिवङ्गमिनो नो भवेयुः १ तत्पर्यनुयोगत्रयमुक्तरीतुं कामकेतनात्मकं व्याकरणसूत्र स्मृतिगोचरं विदध्याः ॥ १७ ॥ ॥ [ अनुष्टुप् ] निःशेषे लुग् भवेद्विश्व, सतां सर्वत्र सम्मतम् । चित्रं व्याकरणे हैमे, विपरीतं विभाव्यते || १८ |
( पञ्जिका )
जगति शेषाभावे सति लुग् भवति, तद् सज्जनानां सर्वविषयेऽभिमतम् परमाश्चर्यमेतद्यत् किल हैमव्याकरणे विपरीतं विरुद्धं विभाव्यते । अत्र लोके 'निःशेषे लुग्' इत्यत्र निहितं विरुद्धं सूत्र समुद्भावनीयमिति ||१८||
[ द्रुतविलम्बितम् ]
भवति किं सहबोधकमव्ययं, तुपरतस्तु किमास्वरयोगतः । हरिप्रियाप्रियनाम किमक्षरं, कथय दक्ष विचक्षणलक्षणम् ||१९|| ( पञ्जिका )
(१) सहार्थबोधकमव्ययं किं भवति ? (२) 'तु' इत्येतस्माद्वर्णात् परत: 'अ' इत्येतत्स्वरसम्बन्धात् किं स्यात् ? कीदृक् सन्धिसम्पादितं रूपं भवेदिति यावत् ? (३) विष्णुप्रियाया एकवर्ण प्रियतरमभिधानं किम् ? अत्र प्रश्नत्रितयोत्तरार्थम् अयि चतुरचण व्याकरणं वद ॥ १६ ॥