SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ [ ७ ] अर-इत्येतेषां व्याकरणे का संज्ञा ? यदि प्रथमाध्यायस्य तुर्यपादे समधीती तदा त्वरया गुणयोग्यः श्रीमान् गुणकार्यकरणसूत्रं वदतु ॥१३॥ .. [ उपजातिः ] सन्ध्यक्षराधादिममम्ति सूत्रं, विसर्गतो नैव विसर्जितं यत् । इकाग्माकारतया विधत्ते, दक्षोऽसि चेतद्वद मासमध्ये ॥१४॥ (पञ्जिका) सन्ध्यक्षरसत्कप्रथमाक्षरात्मकं विसर्गसमन्वितं सूत्रमस्ति । एतादृशं तत् इकारमाकाराकारेण परिणमयति, चेत् त्वं शब्दशास्त्रनिपुणस्तदा मामाभ्यन्तर मनुसन्धाय वदेति ॥१४॥ [ अनुष्टुपू] अन्तस्थान्तः स्थिता वर्णा, अन्तस्थासु न सम्मताः । अस्ताश्च यत्र सूत्रं तत्, त्रिव्यञ्जनं स्वरैककम् ॥१५॥ . (पञ्जिका ) व्यञ्जनत्रयघटितमे कस्वरसंवलितञ्च सूत्र वर्तते तदन्वेषणीयम्; यरसूत्रस्थिता वर्णा अन्तस्थासंज्ञारहिता अपि 'अन्तस्था' मध्ये वर्तन्ते, अस्ताः पुनः अव सकारतकाराकाराकाररूपा न सन्ति, तत् किमित्युच्यताम् ॥१५॥ ___ [ वियोगिनी-सुन्दरी ] प्रथमं प्रथमैकवागवचः, पयसो गीतमथो द्वितीयकम् । पिरं पवनाशनेशितुः, स्मृतिमाधाय वदन्तु लक्षणम्॥१६।। (पञ्जिका.) (१) यत्र सूत्र प्रथमं पयसो वाचकः शब्दः प्रथमैकवचनान्तः पठितः । ततश्चापरो नागराजाभिधायकः शब्दः सप्तम्येकवचनो वर्तते, स्मरणं विधाय लक्षणसूत्र व्याक्रियतामिति ॥१६॥
SR No.002446
Book TitleLakshan Vilas
Original Sutra AuthorN/A
AuthorDhurandharvijay Gani
PublisherJain Sahityavardhak Sabha
Publication Year1916
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy