________________
चतुर्थं योगस्थानम्
505 वेदितव्यः तद्यथा शमथभावना, विपश्यनाभावना, [पूर्ववदेव तत्र]' लौकि[3]कमार्गभावना, लोकोत्तरमार्गभावना, - मृदुमध्याधिमात्रभावना, प्रयोगमार्गभावना, आनन्तर्यविमुक्तिविशेषमार्गभावना [1]
तत्र शमथभावना नवाकारायाश्चित्तस्थित्या[](ञ्चित्तस्थित्यां) पूर्ववत् ।
विपश्यनाभावना पूर्ववदेव । तत्र लौकिकमार्गभावना[य]दधोभूमिकानामौदारिकदर्शनतया उपरिभूमीनां च शान्तदर्शनतया, [4] यावदाकिञ्चन्यायतनवैराग्यगमनं [1]
तत्र लोकोत्तरमार्गभावना दुःखं वा दुःखतो मनसिकुवतः, यावन्मार्गम्वा मार्गतो मनसिकुव॑तः । यदनास्रवेण मार्गेण सम्यग्दृष्ट्यादिकेन यावन्नवसंज्ञा नासंज्ञायंतनवैराग्यगमनं [1] ___ तत्र मृदुमार्गभावना ययौदारिकानधिमात्रान् क्लेशान्प्रजहाति । तत्र म[5]ध्यमार्गभावना यया मध्यान् क्लेशान् प्रजहाति । तत्राधि [ मात्र ] मार्गभावना यया मृदुं क्लेशप्रकारं प्रजहाति । सर्वम्पश्चात्प्रहेयं ।
तत्र प्रयोगमार्गभावना यया प्रयोगमारभते क्लेश प्रहाणाय। तत्रानन्तर्यमार्गभावना यया प्रजहाति ।
1. Wayman omits पूर्वदेव । तत्र, which may be dropped, 2. MS. omits this,