________________
श्रावभूमौ नैष्क्रम्यभूमिः
अतीतानागतप्रत्युत्पन्नेष्वध्वसु अनित्यं नित्यकालं - (म ) ध्रुवं ध्रुवकालमे [ 5 ] ते कामा: । एवं बहूपद्रवाः, बहुपसर्गा, बह्वादीनवा इत्येवं कालम्पर्येषते ।
कथं युक्ति पर्येषते । महता संरम्भेण, महत्या पर्यष्ट्या, महता परिश्रमेण विविधैर्विचित्रैः शिल्पकर्मस्थान: कामा: संह्रियन्ते । निर्व्वर्त्यन्ते, उपचीयन्ते [1] ते पुनः सूपचिता अफि, सुनिर्वर्तिता [6] अपि । यावदेष बहिर्धा परिग्रहवस्तुन: माता (तृ) - पितृपुत्रदार दासीदासकर्मक रपौरुषेय मित्रामात्यज्ञातिसालोहितानां । अस्य वा पुनः कायस्याध्यात्मिकस्य रूपिण औदारिकस्य च [1] तुर्महाभूतिकस्यौदनकल्माषोपचितस्य नित्योत्सदनस्नपनपारिमर्दनभेदन (च्) - छेदन [7] विकिरणविध्वंन्स (ध्वंस ) न धर्मेण उत्पन्नोत्पन्नदुःखमात्रप्रतीकाराय सम्वर्तन्ते । क्षुदुःखप्रतीकाराय भोजनं । शीतोष्णदुःखप्रतीघाताय । ह्रीकोपन प्रतिच्छादनाय (1) च वस्त्रं [ 1 ] निद्राक्लमदुःखप्रतीघाताय च शयनासनं । चंक्रमस्थानदुःखप्रतिघाताय च । व्याधिदुःखप्रतिघाताय [8] च (1) ग्लानभैषज्यमिति दुःखप्रतीकारभूता एते कामा इति । नैते रक्तेन परिभोक्तव्याः । न सक्तेन नान्यत्र व्याधिग्रस्तेनैवातुरेण व्याधिमात्रोपशमाय भैषज्यमा - प्तागमो [S]प्येषः । तथैते कामा: एवं चैवं 13B - 4 / / चौदारिकाः । // [1] प्रत्यात्ममपि मे ज्ञानदर्शनं
442