________________
441
चतुर्थं योगस्थानम्
कृतं च दुःखं प्रतिसंवेदयन्ति । पूर्व्ववदेव तावत्सर्व्वं वेदितव्यं ।
तथा कामान्प्रतिषेवतः । पंचादीनवा उक्ताः । भगवता अल्पास्वादाः कामा: बहुसु (दुः) खा, बह्वादीनवाः [1] कामान्खलु प्रतिषेवमाणस्य नास्त्यलं ताव(त्) तृप्तिता च पर्याप्तिता वा, अनेन पर्यायेण कामा वि[2] गर्हिता बुद्ध: बुद्धश्रावर्कश्च सद्भिः सम्यग्गतैः, सत्पुरुषः [i]
"
कामान्खलु प्रतिषेवमाणस्य संयोजनान्युपचयं गच्छन्ति । नास्ति चास्य किंचित् पापकमकुशलं कर्माकरणीयं वदामि । इतीमे कामा अतृप्तिक [T]रका[:]साधारणा, अधर्मविषमचर्याहेतवः ।
काम
क्षिप्रविषयतृष्णाविव [3]र्धकाः, सतां विवर्जनीयाः, गामिनः, प्रत्ययाधिपा, प्रमादभूमयो, रिक्ता, अनित्यास्तुच्छा, मृषामौषधर्माणी, मायोपमाः, बाललापना: । ये च दृष्टधार्मिकाः (1) कामा:, ये च सांपरायिकाः, ये च दिव्याः, ये च मानुष्यकाः । मा [र] मारभ्यैष गोचरो, मारस्यैष निवापो यत्रमे [ ने] कविधा: [4] पापका अकुशला धर्मा मानसाः संभवन्ति । यदुताभिध्या, व्यापाद (1) [:], संरम्भो वा, ये वा पुनरान्तरायिका भवन्त्यार्यश्रावकस्याशिक्षमाणस्यानेकपर्यायेण कृष्णपक्षपतिता एते कामा यद्भूयसा [] एवम्पक्षं पर्यो ।