SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ चतुर्थ योगस्थानम् 439 ध्यानसमापत्तिसन्निश्रयेन ष[डिव']ज्ञानानां पञ्चानामभिनिर्हारः । तत्र कामवैराग्याय प्रयुक्तो योगी सप्तभिमनस्कारैः। कामवैराग्यमनुप्राप्नोति । कतमे पुनस्ते सप्त मनस्काराः। आह। लक्षणप्रतिसंवेदी, आधिमोक्षिकः, प्राविवेक्यो, रतिसंग्राहकः। मीमान्सा (मांसा) मनस्कारः। प्र[4]योगनिष्ठः, प्रयोगनिष्ठाफलश्च । ___तत्र लक्षणप्रतिसंवेदी मनस्कारः कतमः । आह। येन मनस्कारेण कामानामौदारिकलक्षणं प्रतिसंवेदयते। प्रथमे च ध्याने शान्तलक्षणं । कथं च पुनरौदारिकलक्षणं प्रतिसंवेदयति । आह । कामानां षड्वस्तूनि पर्येषमाणः अर्थन्य स्वूलक्षणं (अर्थ, स्वलक्षणं, सामान्यलक्षणं)। [5] पक्षं कालं युक्तिञ्च । तत्रौदारिकार्थं तावत्पर्येषते। इतीमे कामा: सादीनवा, बहूपद्रवा, बह्वीतिका, बहूपसर्गा इति । या एषु कामेषु बह्वादीनवता। यावद्बहूपसर्गता । अयमौदारिकार्थः। तत्र वस्तु पर्येषते । अस्त्यध्यात्म कामेषु काम (च्) छन्द इति ।। तत्र स्वलक्षणं [6] पर्येषते। अमी क्लेशकामाः । अमी वस्तुकामाः। ते पुनः सुखस्थानीया, दुःख1, Added by a separate hand, indistinct and illegible.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy