________________
13B-3//
चतुर्थं योगस्थानम्
तत्र लब्धमनस्कारस्य योगिनः । एवं परीत्तप्रहाणरति प्रविष्टस्य तदूर्ध्वं द्वे गती भवतः । अनन्ये । कतमे द्वे तद्यथा । लौकिकी च लोकोत्तरा च ।
तत्रायमादिकर्मको योगा [8]चारः । समनस्कारः । लौकिकया वा गत्या गमिष्यामि । लोकोत्तरया वेति । तमेव मनस्कारं बहुलीकरोति । यथा यथा बहुलीकरोति । तथा तथा सा प्रश्रब्धिश्चित्तैकाग्रता च । तेषां तेषां रात्रिदिवसानामत्ययात्पृथुवृद्धिवैपुल्यतां गच्छति । यदा चास्य दृष्टिस्थिरः खरश्च मनस्कारः संवृत्तो भवति । परिश्र[9]ब्धश्चालम्बनाधिमोक्षः । प्रवर्तते । विपश्यनापक्ष्याच्च निमित्तान्युद्गृहीतानि भवन्ति । तदा स लौकिकेन मार्गेण गन्तुकामस्तत्र च प्रयोगमारभते लोको//[1]त्तरेण वा मार्गेण [1]
शमथ
तत्र कति पुद्गलाः । ये दृष्टे धर्मे लौकिकेनैव
1. On लौकिक and लोकोत्तर मार्ग, see Yogasthāna I, p. 35.