________________
तृतीयं योगस्थानम्
419 वचनं । अबालभागीयः पुरुष इति। योगाचारस्याधिवचनं । तैलपात्रमिति । [4] शमथोपनिबद्धस्य चित्तस्य एतदधिवचनं । . कायचित्तप्रश्रब्धिस्नेहनार्थेन उत्क्षिप्तासिको बधकपुरुष इतिनिमित्तवितर्कोपक्लेशेषु पूर्वोद्गृहीतस्यादीनस्यैतदधिवचनं [1] सत्कृत्य विहरति । न चैकबिन्दुमपि पृथिव्यां पा[5]तयतीति विक्षेपाविक्षेपपरिज्ञानावधानपरिगृहीतस्य शमथमार्गस्यैतदधिवचनं। येनायं सर्वो (सर्वां) चित्तसन्तति चित्तधारां निर्मिमित्तां निर्विकल्पामुपशान्तां वीर्यबलेन निरन्तरां पौपियेण प्रवर्त्तयति । न चैकचित्तमुत्पादयति । निमित्तालम्बनम्वा वितर्कोपक्लेशालम्बनम्वा ॥ ___ तमेनमेवं शमथप्रयुक्तमादि[6]कर्मिकं योगी समनुशास्ति। यावत्ते, भद्रमुख, एवं शमथमार्गप्रयुक्तस्य एवमुपायपरिगृहीतं स्मृतिसंप्रजन्यसहगतं साभिरामं चित्तं भवति । तावत्ते शमथमार्ग एव भावयितव्यः । स चेत्पुनरनभ्यासमोषान्न रमते सोपायं च तदालम्ब तस्मानिर्विकल्पादालम्बनाद् व्युत्थाय सविकल्प आलम्बने [7] स्मृत्युपनिबद्धं कुरुते । यदेव ते पूर्वोद्गृहीतमशुभनिमित्तं तदेव मनसि कुरु तत्प्रथमतो निमित्तमात्रानुसारिण्या विपश्यनया यदुत विनीलकम्वा, विपूयकम्वा, यावदस्थिशंकलिकाम्वा ॥ तथा प्रयुक्तश्च तत्प्रथमव (त) एकं विनीलकमधिमुच्यस्व,