________________
418
श्रावकभूमौ नैष्क्रम्यभूमिः
महासमाज । परिहर्त्तव्यमयं च ते उत्क्षिप्तासिको बधकपुरुष: पृष्ठतः पृष्ठतः समनुबद्धः । स चेत्त्वमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां निपातयिष्यसि
ततस्ते उत्क्षिप्त[]सिको बधकपुरुष उच्छिन्नमूलं शिरः 128–6|| प्रपातयिष्यति। किं मन्यध्वे भिक्षवः//[1] अपि नु
स पुरुषः अमनसिकृत्वा तैलपात्रममनसिकृत्वा तैलपात्रममनसिकृत्वा उत्क्षिप्तासिकं बधकपुरुषं जनपदकल्याणी[] मनसि कुर्यान्महाजनसमाजम्नो, नो, भदन्त, तत्कस्य हेतोस्तथा हि तेन पुरुषेणो[क्षिप्तासिको वधकपुरुषः पृष्ठतः पृष्ठतः समनुबद्धो दृष्टः। तस्यैवं स्यात् [1] स चेदहमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां पातयिष्यामि। अतो मे उ[2] त्क्षिप्तासिको बंधकपुरुषः उच्छिन्नमूलं शिरः प्रपातयिष्यति। नान्यत्र स पुरुषः अमनसिकृत्य (त्वा) जनपदकल्याणी[] महासमाजम्वा । तदेव तैलपात्रं सर्वचेतसा समन्वाहृत्य सम्यगेव परिहरेदेवमेव भिक्षवः । ये केचिच्चत्वारि स्मृत्युपस्थानानि सत्कृत्य भावयन्ति । गुरुकृत्य सर्वचेतसा समन्वाहृत्यते मे (त इमे) श्रावका इति [1] तत्र [3] जनपदकल्याणीति काय [च्छन्दाधुपक्लेशपर्यवस्थानीयानान्धर्माणामेतदधिवचनं । परमप्रधाना नृत्तगीतवादित इति वितर्कप्रपञ्चसंक्षोभस्थानीयानां धर्माणामेतदधिवचनं । महासमाज इति । रूपनिमित्तादीनां दशानां निमित्तानामेतदधि