SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ 391 तृतीयं योगस्थानम् न' - करोत्यप्रमत्तश्च विहरत्येवं च पुनरप्रमत्तो विहर[ति । ] अपि बत जीवेयं सप्ताहं षट् पञ्चचतुस्त्रिद्विरे(द्वये) काहयाममर्धयाममपि मुहूर्तमपि अर्धमुहूर्तमपि [1] अहो बत जीवे [4] यं यावत्पिण्डपातं परिमुञ्जेयं । यावदाश्वसित्वा (स्य) प्रश्वसेयं । यावच्च जीवेयं तावद्योगमनसिकारेण शास्तुः शासने योगमापद्येयं । य इ (दि)यता मया बहुकृत्यं स्याद्यदुत शास्तुः शासने इतीयमशिथिल प्रयोगता । तत्र कतमा । अविपरीतप्रयोगता । कालेन कालं शमथनिमित्तं प्रग्रहनिमित्त [ 5 ] मुपेक्षानिमित्तं भावयति । शमथं च जानाति । शमथनिमित्तं च । शमथकालच [1] विपश्यनां विपश्यनानिमित्तं विपश्यनाकालं प्रग्रहं प्रग्रहनिमित्तं प्रग्रहकालं । उपेक्षा.मुपेक्षानिमित्तमुपेक्षाकालव । तत्र शमथः नवाकारा चित्तस्थितिः । निर्निमित्तञ्च तच्चित्तं तत्र भवति, निर्विकल्पं, शान्तप्रशान्तं, [6] शमथस्थितं, निष्केवलं, तेनोच्यते शमथ इति । तत्र शमथनिमित्तं द्विविधमालम्बननिमित्तं, 1. Syllable illegible. 2. Buddhaghosa explains प्रग्रह ( Pali पग्गह) as वीर्य, पग्गहो ति विरियं । विपस्सना सम्पयुत्तमेव हिस्स असिथिलमनञ्चारद्धं सुपग्गहितं विरियं उप्पज्जति। Vsm., XX.119; this प्रग्रह ( Pali पग्गह) is intimately related to fa, see Vsm., IV.49; cp. Kosambi, Vsmt., IV.49, p. 37: पग्गण्हनं समुस्साहितकरणं पग्गहो; cp. also, SVA, p. 286, para 3; Vsm., IV-51-52.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy