________________
390
श्रावकभूमौ नष्क्रम्यभूमिः
सर्वेण सर्वमादिकर्मिक एव भवति । तथा ह्यादिकर्मिकस्यानुरूपे[s]प्यालम्बने न प्रयुक्तस्य निव (7)रणानि नाभीक्ष्णं समुदाचरित (रन्ति)। कायचित्तदौ[8]ष्ठुल्यं च । येनास्य तत् (च) चित्तं समाधीयते । इयमभ्यस्तप्रयोगताः। तत्र कतमा अशिथिलप्रयोगता। सातत्यप्रयोगी भवति ।
सत्कृत्यप्रयोगी च । स चेत्पुनर्वृत्तिष्ठते । . 13A-1|| ||[1] समाधेः पिण्डपातहेतोश्च [गु] रुगौरवोप
स्थानहेतोर्वा । ग्लानोपस्थानार्थम्वा, सामीचीकर्मणो वा अन्यस्यैवंभागीयस्येतिकरणं यस्यार्थाय स तन्निम्नेन चेतसा तत्प्रवणेन तत्प्रास्तारेण (भारेण) च सर्व करोति । लघुलध्वेव च कृत्वा, परिप्राप्य, पुनरेव प्रयुज्यते । नियम्य प्रतिसंलयनाय स चेद्भिक्षुभिक्षुण्युपासक [2]क्षत्रियब्राह्मणपर्षद्भिः सार्धं समागच्छति । न चिरं संसर्गेणातिनामयति । मितं च संलपति । ' न च भाष्यप्रबन्धमुत्थापयति । नान्यत्र व्यपकर्षति । एवं च पुनरारब्धवीर्यो भवति। यन्न्वहमदैव प्राप्तव्यमधिगच्छेयं । तत्कस्य हेतोः । बहवो मे प्रत्यया मरणस्य-वातो वा मे कुप्येत, पित्तम्वा, श्लेष्मम्वा (श्लेष्म वा), भुक्तं वा विषम्येत, [3]येन मे विषूचिका काये सन्तिष्ठेत । अहिर्वा मे (मां) दशेत (त्) । वृश्चिको वा शतपदी वा [1] मनुष्यादपि मे भयमित्येतानि स्थानानि नित्यकालस्य