________________
तृतीयं योगस्थानम् . 385 यत्पुनरविद्यासंस्पर्शज[i] वेदना वेदयमानस्तदालम्बनया तृष्णया पौनविकी तृष्णामुत्पादयति । तृष्णापक्ष्यं मोहपक्ष्यं चोपादानं । [3]परिगृह्णाति । यद्वलेन यत्सांमुख्येन तत्कर्म विपाकदानदान'समर्थं भवत्ययमभिनिर्व त्तिहेतुः । इमं च द्विविधं हेतुमधिपतिं कृत्वा एवं अस्य त्रिविधः दु:खतानुपक्षस्य केवलस्यास्य दुःखस्कन्धस्य समुदयो भवतीति ।' एवमपेक्षायुक्ति पर्येषते।
इदं प्रत्ययता प्रतीत्यसमुत्पादः । आसेवि[4]तो भावितो मोहप्रहाणाय सम्वर्तते । आप्तागमोप्येष प्रत्यात्मिक आनुमानिकोप्येष विधिः । प्रसिद्धधर्मताप्येष ते (षेति) एवं कार्यकारणयुक्तिमुपपत्तिसाधनयुक्ति धर्मतायुक्तिञ्च पर्येषते ॥ ___तत्रं कथं धातुप्रभेदालम्बनविपश्यनाप्रयुक्तमर्थ पश्यन पर्येषते । गोत्रार्थो, धात्वर्थः, संज्ञार्थो, हेत्वर्थः । [5]प्रकृत्यर्थ इत्येवमर्थप्रतिसम्वेदी अर्थं पर्येषते । पृथि
व्यादीन्षड्धातून्न (न)ध्यात्मबहिर्धाधिमुच्यमानो वस्तु (contd. from p. 384) सास्रवं कर्म भवः। कर्मनिष्यन्दो जातिः स्कन्धोन्मज्जनम् । स्कन्धपरिपाको
जरा। जीर्णस्य स्कन्धभेदो मरणम् । ... 1. दान may be deleted. 2. cp. DBS, p. 33 : अपि तु खलु पुनखिदुःखता द्वादशभवाङ्गान्युपादाय तत्र
अविद्या संस्कारा यावत्षडायतनमित्येषा संस्कारदुःखता। स्पर्शो वेदना चैषा दुःखदुःखता। परिशेषाणि भवाङ्गान्येषा परिणामदुःखता। अविद्यानिरोधात् संस्कारनिरोध इति त्रिदुःखताव्यवच्छेद एषः ।