________________
380
श्रावकभूमौ नष्क्रम्यभूमिः
व्यापादः एवं मैन्या (:) कृष्णशुक्लशुक्लपक्षं पर्येषते ।
स पुनः प्रवि[2]चिनोति । ये तावदतीतमध्वानमुपादाय सुखकामाः सत्त्वाः ते अतीताः, तेषां किं पुनः सुखोपसंहारं करिष्यामः । ये पुनर्वर्तमानाः सत्त्वास्ते वर्तमानमध्वानमुपादाय । यावदनागतादध्वनो नित्यकालं सुखिनो भवन्ति (न्ती) त्येवं मैत्र्या (:) कालं पर्येषते ।
स पुनः प्रविचिनोति। नास्ति कश्चिदात्मा वा, सत्त्वो वा य एष सुखकामो [3]वा स्यात् । यस्य वा सुखमुपसंह्रियते । अपि तु स्कन्धमात्रमेतत् संस्कारमात्रकमेतद्यत्रैषा संज्ञा संज्ञप्तिर्व्यवहारः। ते पुनः संस्काराः कर्मक्लेशहेतुका इत्येवमपेक्षायुक्त्या मैत्रीम्पर्येषते। प्रसिद्धधर्मता खल्वेषा[अ]चिन्त्यधर्मता यन्मैत्रीव्यापादभावना प्रहाणाय सम्वर्त्तत इत्येवं धर्मतायुक्त्या मैत्रीम्पर्येषते ।
1. cp. A. K. III.18 :
आत्मा नास्ति स्कन्धमात्रन्तु क्लेशकर्माभिसंस्कृतम् ।
अन्तराभवसन्तत्या कुक्षिमेति प्रदीपवत् ॥; cp. Sss, MSS, I.102-3, 104, 106; see also MSss, MSS, I.108 sq.; cp. Mvy., sec. 205, 208; DBS, 32.7; on this point, vide our article, बौद्धनये नैरात्म्यसिद्धान्तः, Saraswati Susama, XXIII, pt. II, pp. 110-27; see also, Proceedings, XXVI International Congress of Orientalists, vol. III, pt. I, p. 531; P. O., XXVII.3-4, pp. 144-32; JGRI, XXIII, pp. 29-50; also, cp. CPB, cp. I-II,