________________
तृतीयं योगस्थानम्
11B-7 || कृष्णपक्षसमयो नाधि // [1] वासयितव्यः । प्रहातव्यो विशोधयितव्यः । शुक्लपक्ष्यः पुनरनुत्पन्न उत्पादयि - तव्यः । उत्पन्नस्य च स्थितिर्वृद्धिर्वैपुल्यता (विपुलता ) करणीया । एवं पक्षं पर्येषते ।
येय
कथं कालं पर्येषते । तस्यैवं भवति । मध्यात्मं [ अ ]शुभा वर्णनिभा सेयम्वर्त्तमानमध्वानमुपादाय या पुनरियं बहिर्धा अशुभा वर्णनिभा इयमपि वर्तमान (तार) मेवाध्वान [ 2 ] मुपादाय | अतीतं पुनरध्वानमुपादाय । शुभा बभूव । सैषा तावदतीतमध्वानमुपादाय शुभा सती तद्यथा मे एतहि । वर्तमानमध्वानमुपादाय । एव मानुपूर्व्या एतहि वर्तमानमुपादाय अशुभा संवृत्ता सा मे इयं [अ] शुभा वर्णनिभा वर्त्तमानमध्वानमुपादायाशुभा सती । अनागते [ अ ] ध्वन्यशुभा न भविष्यतीति । नेदं स्था[3]नं विद्यते । तद्यथैषा बाह्या एव []वर्तमानमध्वानमुपादाय । इति ह्यतीतानागतप्रत्युत्पन्नवध्वसु अयमपि मे काय एवंभावी, एवंभूत, एतां च धर्मतामनतीत इत्येवं कालं समन्वेषते ।
375
कथं युक्ति समन्वेषते । तस्यैवं भवति । नास्तीति स कश्चिदात्मा वा सत्त्वो वाध्यात्मं वा, बहिर्धावोपलभ्य [मानः ] 2 यः शुभो वा स्यादशुभो वा [ 1 ]
1. MS. omits this.
2. Should be deleted.