________________
तृतीयं योगस्थानम्
371
मामगन्धमिति । एभिराकारैरेवंभागीयस्तस्यैवाशुभाधिकृतस्य धर्मस्य पूर्वश्रु[3] तस्यार्थप्रतिसंवेदना[1] एवमशुमतयार्थं पर्येषते । ___ कथं वस्तु पर्येषते [1] स एवमर्थप्रतिसंवेदी तामशुभतां द्वयोर्भावयोर्व्यवस्थापितां पश्यत्यध्यात्मम्बहिर्धा च ।
कथं स्वलक्षणं पर्येषते। अध्यात्म तावदन्तः कायगतामशुभतां प्रत्यशुभतामधिमुच्यते ॥ सन्त्यस्मिन्काये केशरोमाणि विस्तरेण यावन्मस्त[4]कं मस्तकलुंगं प्रश्राव (प्रस्राव) इति । तां पुनरनेकविधामन्तः कायगतामशुभतां द्वाभ्यां धातुभ्यां संगृहीतामधिमुच्यते। पृथिवीधातुना, अब्धातुना च [i] तत्र केशरोमाण्युपादाय । यावद्यकृत्पुरीषा पृथिवीधातुरधिमुच्यते । अश्रुद्वेदनामुपादाय यावत्प्रस्रावादब्धातुमधिमुच्यते । बहिर्धा वा पुनर्बाह्यगतामशुभ[5]तां विनीलकादिभिरा-' कारैरधिमुच्यते । तत्र विनीलकमधिमुच्यते । यदनेन मृतकुणपं स्वयं वा दृष्टं भवति । पुरतो वा श्रुतं परिकल्पितं वा, पुन[:]स्त्रिया वा, पुरुषस्य वा, मित्रस्य वा, अमित्रस्य वा, उदासीनस्य[6]वा । हीनम्वा, मध्यम्वा, प्रणीतम्वा, दह्रस्य वा, मध्यस्य वा, वृद्धस्य वा []
तत्र निमित्तमुद्गृह्य एकाहमृतं प्रगडितशोणितमयं प्राप्तपूयभावं विनीलकमित्यधिमुच्यते । द्वयहमृतं