SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ 364 श्रावभूमौ नंष्क्रम्यभूमिः व्युपशमयति । एकोतीकरोति । समाधत्ते [1] कथं स्थापयति । सर्वबाह्येभ्य आलम्बनेभ्यः प्रतिसंक्षिप्याध्यात्ममविक्षेपायोपनिबध्नाति । यत्तत्प्रथमोपनिबद्ध विक्षेपाय इयं स्थापना । कथं संस्थापयति । तत्प्रथमोपनिबद्धं यदेव चित्तं तद्व[ल'] मौदारिकमसंस्थित [3] मपरिसंस्थितं तस्मिन्नेवालम्बने प्रवर्द्धनयोगेन प्रसादयोगेन साभिनिग्रहं सूक्ष्मीकुर्व्वन् अभिसंक्षिपन् संस्थापयति । कथमवस्थापयति । स चेच्चित्तमेव स्थापयतः । स्मृतिसंप्रमोषाद्बहिर्धा विक्षिप्यते । प्रतिसंहरन्ति ( ति ) । एवमे (म ) व स्थापयति । स पुनरपि तथैव कथं दमयति । यै [4] निमित्तैरस्य तच्चित्तं विक्षिते । तद्यथा गत्वरसंस्प्रष्टव्यनिमित्तं रागद्वेषमोहस्त्रीपुरुषनिमितैश्च [।] तत्त्रानेन पूर्व्वमेवादीनवसंज्ञोद्गृहीता भवति । तामधिपति कृत्वा तेषु निमित्तेषु तस्य चित्तस्य प्रसरं न ददाति । एवं दमयति ॥ कथं शमयति । यैवित: कामवितर्कादिभिः । यैश्चोपक्ले[5]शैः । काम [च]छन्दनिवरणादिभिः । तस्य चेतसः संक्षोभो भवति । तत्रानेन पूर्वमेवादीनवसंज्ञोद्गृहीता भवति । तामधिपतिं कृत्वा तस्य चेतसः । तेषु वितर्कोपक्लेशेषु । प्रसरं न ददात्येवं शमयति । 1. A separate hand adds this.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy