________________
तृतीयं योगस्थानम्
स
आवजितोऽपि न तथा सानुकारमनुप्रयच्छति । चेत्पुनर्विचरितो ( विचारानुचरितो ) भवति । तस्य स्ववहितस्यापि चित्तं विक्षिप्यते । दुर्गृहीतग्राही भवति । न दृढं गृह्णाति । न स्थिरं, उद्गृहीतञ्च नाशयति । न पु[ 3 ]न [ : ] कय (थ) या परिपृच्छन कश्च भवति । एवं कथया । गोत्रमिन्द्रियं चरितं च समन्वेषितव्यं । कथं चेष्टया [1] यानि पूर्वोक्तानि लिंगानि । श्रावकगोत्रस्य, रागचरितानां च पुद्गलानां तानि चेष्टेत्युच्यते । तया च चेष्टया यथायोगं गोत्रमिन्द्रियं चरितं च समन्वेषितव्यं ।
357
तत्र कथं चेतः पर्यायज्ञानेन' गोत्रेन्द्रि [4] यचरितानि समन्वेषितव्यानि । यथापि स योगी योगज्ञो लाभी भवति चेतः पर्यायज्ञानस्य [ 1 ] स तेन परचित्तज्ञानेन - गोत्रमिन्द्रियं चरितं च यथाभूतं प्रजानाति ।
1. चेतः पर्यायज्ञान is the knowledge of the minds (cittāni) of all the beings and is derived by the Buddha or bodhisattva, see, Bodhi, p. 49 : तत्र चेतः पर्यायज्ञानं बुद्धबोधिसत्त्वानां कतमत् । इह बोधिसत्त्वो वा तथागतो वा परेषां ... • सत्त्वानां चित्तं जानाति । विगतक्लेशपर्यवस्थानमपि क्लेशसानुबन्धं सानुशयमपि क्लेशनिरनुबन्धं निरनुशयमपि मिथ्याप्रणिहितमपि क्लिष्टमपि “सम्यक् प्रणिहितमपि हीनमपि, कामधातूपपन्नानां सर्वसत्त्वानामन्ततो मृगपक्षिणामपि मध्यमचित्तं प्रणीतं सुखं दुःखं ''अदुःखासुखवेदनासम्प्रयुक्तमपि चित्तं जानाति । 'सा पुनरियमभिज्ञा बुद्धस्य बोधिसत्त्वानामिन्द्रियपरापरज्ञानाय सत्त्वानां नानाधिमुक्तिज्ञानाय नानाधातुचरितज्ञानाय यथायोगञ्च प्रतिपत्सु चित्रासु निर्वाणपुरः सरीषु सम्यक् सन्नियोगाय । इयमस्याः कर्म वेदितव्यम् ।।
....