SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ द्वितीयं योगस्थानम् 327 [2]श्चावशिष्टाः [i]स तेषां प्रहाणाय त्रिस्कन्धमार्याष्टंग मार्ग भावयति । तत्र या च सम्यग्दृष्टिर्यश्च सम्यक्संकल्पः, यश्च सम्यग्व्यायामः । अयं प्रज्ञास्कन्धः । तत्र ये सम्यक्कर्मान्ताजीवाः। अयं शीलस्कन्धः । तत्र या च सम्यक्स्मृतिः, यश्च सम्यक्समाधिरयं समाधिस्कन्धः। ___ केन कारणेनार्याष्टांगो मार्ग इत्युच्य[3]ते । आह। आर्यस्य शैक्षस्य दृष्टपदस्यायं मार्ग इयं प्रतिपदष्टाभिरंगः संगृहीता (:) ॥ अपरिशेषः । सर्व्वक्लेशप्रहाणाय विमुक्तिसाक्षात्क्रियायै तेनोच्यते आर्याष्टांगो मार्गः। तत्र यश्च बोध्यंगकाले तत्त्वावबोधः (1) प्रतिलब्धः, प्रतिलभ्य च यत्तस्यैव प्रज्ञया व्यवस्थानं करोति । यथा[4]विगतस्यावबोधस्य, तदुभयमेकत्यमभिसंक्षिप्य सम्यग्दृष्टिरित्युच्यते। तां सम्यग्दृष्टिमधिपतिं कृत्वा। यन्नैष्क्रम्यसंकल्पं संकल्पयत्यव्यापादसंकल्पमविहिन्सा (हिंसा ) संकल्पमय मुच्यते सम्यक्संकल्पः। स चेतावद्वितर्केषु चित्तं 1. see, S. N., IV.361; Vbh., pp. 133-5, 285-90; Psm., pp. 327-31, 334-5; SVA, p. 321 sq. 2. cp. Adv., p. 373, 72, 2. cp. RAK, V.59. 3. Vide, S. N., IV.361; for references, vide PTSD s.v, magga; Psm., 330.12 sq.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy