________________
द्वितीयं योगस्थानम्
323 शक्यते । अवमृदितुं । असंहाया (या) सा श्रद्धा देवेन वा, मारेण वा, ब्रह्मणा वा। केनचिद्वा पुनर्लोके, सह धर्मेण क्लेशपर्यवस्थानेन वा तेन सा अनवमृद्येत्युच्यते । तत्प्रमुखास्तत्पूवंगमा ये वीर्यादयस्तेपि[6]बलानीत्युच्यन्ते । तैः स बलैर्बलवान् सर्वं मारबलं विजित्य प्रयुज्यते । आस्रवाणां क्षयाय । तस्माद्बलानीत्युच्यन्ते । __ तत्र यश्च (यच्च) श्रद्धेन्द्रियं, यच्च श्रद्धाबलं चतुर्खेतदवेत्य प्रसादेषु द्रष्टव्यं । तत्कस्य हेतोः । योऽसो सम्यक्त्वन्यामावक्रान्तस्यावेत्य प्रसादः । स तद्धेतुकस्तत्प्रत्यस्तन्निदानः । [7] तस्माद्धेतुफलसम्बन्धेन तस्यास्तदधिपतिफलमिति कृत्वा। तत्र द्रष्टव्यमित्युक्तं भगवता। न तु तच्छरीरतां तल्लक्षणतां [I] तत्र वीर्येन्द्रियं चतुर्यु सम्यक्प्रहाणेषु द्रष्टव्यं । (तत्कस्य
हेतोः') यानि (तानि) कतमानि । सम्यक्प्रहाणानि 10A-7// यानि दर्शनप्रहातव्यक्लेशप्रहाणाय//[1]प्रायोगिकाणि
सम्यक्प्रहाणानि, तान्यत्र सम्यक्प्रहाणान्यभिप्रेतानि तानि ह्यत्यन्तताय पापकानामकुशलानां धर्माणां प्रहाणाय सम्वतन्ते ।।
तत्र स्मृतीन्द्रियं चतुर्षु स्मृत्युपस्थानेषु द्रष्टव्य(contd. from p. 322)
बलं । परित्तानि भवन्तीन्द्रियाणि महान्ति भवन्ति बलानि; Asm., p. 74 : यथा पञ्चेन्द्रियाणि तथा पञ्च बलानि । एषां विशेषः तैः विपक्षान्तरायनिर्लेखोऽनवमृद्यतेति बलानीत्युच्यन्ते। cp. Adv., p. 361.3-4. 1. This may be deleted.