________________
316
श्रावकभूमो नष्क्रम्यभूमिः
10B-5// तावदयं छन्दमेव केवलं ज'//[1]नयति। छन्दजातश्च
तान्पापकानकुशलान्धर्मान् स्वभावतो, निदानत, आदीनवतः, प्रतिपक्षतश्च । सम्यगेवोपनिदध्याति । एकाग्रां स्मृति प्रवर्तयति । एवं कुशला[न्]धर्मास्स्व (धर्मान्स्व)भावतो निदानतश्च । अकुशलतो ति:सरणतः सम्यगेवोपनिदध्या (धा)ति । एकाग्रां स्मृतिमवस्थापयति । तबहुलाकारामेका[2]ग्रतां स्पृशति । समवस्थानसमुदाचारदूरीकरणयोगेन । न त्वस्याप्यनुशयमुत्पादयंति । पापकानामकुशलानां धर्माणामयमप्युच्यते । छन्दाधिपतयः । स (सा) अतीता (ते) वा, अनागतप्रत्युत्पन्ने वा पुनरालम्बने पापकाकुशलाधर्मास्थानीये (लधर्मस्थानीये) मृदुमध्याधिमात्रक्लेशसमवस्थानीये, अनुत्प[3]न्नस्य वा अनुत्पादाय, उत्पन्नस्य वा प्रहाणाय, व्यायच्छमानो वीर्यमारममाणः । तत्रालम्बने विचरत्यन्तस्य वालम्बनस्य स्वभावतो निदानतः प्रतिपक्षतश्च । सम्यगुपनिध्यायतः । एकाग्रां स्मृतिमुपस्थापयतो यत्तबहुलविहारिणश्चित्तैकाग्रता उत्पद्यते । समवस्थानदूरीकरणयोगे[4]न त्वस्याप्यनुशयमुद्घातयति । पापकानामकुशलानां धर्माणामयं वीर्याधिपतेयः । समाधि[ः ।]लीनम्वा पुनश्चित्तं प्रगृह्णतः । प्रगृहीतं चित्तं समादधतः । कालेन च कालमध्युपेक्षितः । यत्पापकानामकुशला
1. MS. blurred and illegible; the first line is very dim
and its ink is washed out.