________________
द्वितीयं योगस्थानम्
309
अनुत्पन्नानामनुत्पादायोत्पन्नानां च प्रहाणाय वीर्यमारभते । तथा हि तेषां दृढतरेण वीर्यारंभेणानुत्पत्तिः । प्रहाणं वा भवति । अपि च मृदुमध्यानां समवस्थानामनुत्पन्नानामनुत्पादाय । उत्पन्नानां प्र[4]हाणाय व्यायच्छते । अधिमात्राणां समवस्थानां अनुत्पन्नानामनुत्पादाय । उत्पन्नानां च प्रहाणाय वीर्यमारभते । स चेदतीते आलम्बने चरति । तथा चरति । यथास्य तेनालम्बनेन क्लेशो नोत्पद्यते । स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते नाधिवासयति । प्रजहाति । व्यन्तीकरोति । यथा अतीते आलम्बने एवमनागते [अ]पि वेदितव्यम् । एवमयमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादायोत्पन्नानां च प्रहाणाय व्यायच्छत इत्युच्यते । स चेदयम्वर्तमाने आलम्बने चरति, तथा तथा चरति । यथा तेनालम्बनेन क्लेशो नोत्पद्यते । स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते। उत्पन्नं नाधिवासयति । प्रजहाति । विनोदयति । व्यन्तीकरोति । [6] एवमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय । उत्पन्नानाञ्च प्रहाणाय वीर्यमारभत इत्युच्यते ।
सन्ति पापका अकुशला धर्मा ये संकल्पवशे (बले)नोत्पद्यन्ते । न विषयबलेन । सन्ति ये संकल्पबलेन च। विषयबलेन च ।' तत्र संकल्पबलेनोत्पद्यन्ते ।
तद्यथा विहरतः । अतीतानागतालम्बना ये उत्पद्यन्ते । 1. उत्पद्यन्ते seems to have been omitted in the MS.