________________
304
श्रावकभूमो नष्क्रम्यभूमिः
(प्रहीयते) । अनित्ये नित्यमिति विपर्यासः । प्रतिपक्षण स्मृत्युपस्थानं व्यवस्थापितं । तस्य सरागादिचित्तप्रभेदेन तेषां तेषां रात्रिंदिवसानामत्ययात्क्षणलवमुहूर्ताना(णा) मनेकविधानां बहुनानाप्रकारतां चित्तस्योपलभ्य यः अनित्ये नित्यमिति विपर्यासः [स] प्रहीयते । यत्रा[ना']त्मन्यात्मेति विप[5]र्यासप्रतिपक्षेण धर्मस्मृत्युपस्थानं व्यवस्थापितं । तस्य येषां आत्मदृष्ट्यादिका[नां] संक्लेशानां सद्भावाद्येषां नानात्मदृष्ट्यादिकानां कुशलानां धर्माणामसद्भावात्स्कन्धेष्वात्म दर्शनं भवति । नान्यस्य, स्वलक्षणतः । सामान्यलक्षणतश्च धर्माधर्मानु'दर्शिनो यथाभूतं पश्यतः । योनात्मन्यात्मेति विपर्यासः । [6]स प्रहीयते ।
1. MS. omits this. 2. MS. photo blurred and illegible. 3. See supra, p. 185, f.n. 1 (Adv, p. 315 sq.); AK, VI.14-6 :
निष्पन्नशमथस्यैव स्मृत्युपस्थानभावना । कायविच्चित्तधर्माणां द्विलक्षण-परीक्षणात् ॥ प्रज्ञा श्रुतादिमयी अन्ये संसर्गलम्बनात् क्रमः । यथापपत्ति चत्वारि विपर्यासविपक्षतः ॥ स धर्मस्मृत्युपस्थाने समस्तालम्बने स्थितः ।
तानेव पश्यत्यनित्य-दुःख-शून्य निरात्मतः ।।, see also AKV and AKB; cp. Buddhaghosa, SVA, p. 218.11 : सुभ-सुख-निच्च-अत्त-भावविपल्लासपहानत्थं वा कायो हि असुभो। तत्थ सुभविपल्लासविपल्लट्ठा सत्ता। तेसं तत्थ असुभभावदस्सनेन
(contd. on p. 305)