________________
द्वितीयं योगस्थानम्
301
विहरति । अनिन्द्रियसंगृहीतमेव रूपमध्यात्ममुपगतमुपादत्तं रूपमालम्बनीकुर्खन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति'] [] एवं पूर्व [] त्रिविधं रूपमुपादाय । [4] यदु (यो)त्पन्ना वेदना, चित्तं, धर्मास्तान्यथायोगमालम्बनीकुर्वन् तथादर्शी विहरतीति वेदितव्यं ।
अपरः पर्यायः । यत्समाहितभूमिकं प्रश्रब्धिसहगतं रूपमालम्बनीकरोत्येवमध्यात्म काये कायानुदर्शी विहरति । यत्सूक्ष्ममेवाध्यात्मं समाहितभूमिकं दौष्ठुल्यसहगतं रूपमालम्बनीकरोति । एवं बहिर्धा काये काया[5]नुपश्यी (दर्शी) विहरति । परदौष्ठुल्यसहगतं प्रश्रब्धिसहगतं च रूपमालम्बनीकुर्वन् अध्यात्मबहिर्धा काये। कायानुदर्शी विहरति । एवं तदुपादायोत्पन्ना वेदना, चित्तं, धर्मा यथायोगं वेदितव्याः ।
अपरः पर्यायः। अध्यात्म भूतरूपमालम्बनीकुर्वन्नध्यात्म काये कायानुदर्शी विहरति । बाह्यं भूतरूपमालम्ब[6]नी कुर्वन् बहिर्धा काये कायानुदर्शी विहरति । तच्च भूतरूपमुपादाय । यदुत्पन्नमिन्द्रियविषयसंगृहीतमुपादाय । रूपं चालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति । एवं तदुपादाय या उत्पन्ना वेदना चित्तं धर्मास्तेपि -यथायोगं वेदितव्याः। अपरः पर्यायः । यदा सविज्ञानक
कायमध्यात्ममालम्बन[7]नीकरोति । एवमध्यात्म 1. Added by a separate hand in a footnote.