SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ द्वितीयं योगस्थानम् पयतश्च । धर्मान् प्रविचिन्वतः । यावन्मनस्कारं न प्राप्नोति । तावदस्य बलवाहनो मनस्कारो भवति । बलादवष्टभ्य तच्चित्तमेकाग्रतायामवस्थापयति । तेनोच्यते बलवाहन इति । सचि]छिद्रवाहनो मनस्कारः कतमः। यो लब्धमनस्कारस्य च लौकिकेन मार्गेण गच्छतो लोकोत्तरेण वा (यो) लक्षण प्रति[8] संवेदी मनस्कारः । तथा हि समाधिस्तत्र चिन्तया व्यवथी (स्थी)यते । नैकान्तेन भावनाकारेण प्रवर्तते । तत्र नि[श्] छिद्रवाहनो मनस्कारः। लक्षणप्रतिसंवेदिनो मनस्कारादूर्ध्वं यावत् । प्रयोगनिष्ठान्मनसिकारात्तथानाभोगवाहनो मनस्कारः। यः प्रयोगनिष्ठाफलो मनस्कारः ।। अपरे चत्वारो मनस्कारा: तद्यथा आनुलोमिकः, 9B_8|| ||[1]प्रातिपक्षिकः, प्रसदनीयः, प्रत्यवेक्षणीयश्च [1] तत्रानुलो [मिको'] मनस्कारः। येनालम्बनं . विदूषयति । सम्यक्प्रयोगं चारभते । नो तु क्लेशं प्रजहाति ॥ तत्र प्रातिपक्षिको येन क्लेशं प्रजहाति । तत्र प्रसदनीय येन लीनं चित्तं प्रग्राहकैनिमित्तर भिप्रमोच(द)यति । सं[प्रहर्ष]यति । प्रगृह्णाति । 1. Letters damaged by pin-hold. 2. Letters lost by pin-hold.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy