SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ 268 श्रावकभूमौ नष्क्रम्यभूमिः यत्पुनरिदमुच्यते । आत्मा वा, सत्त्वो वा, जीवो वा, जन्तुर्वा, इदमसत् । तत्र संस्कृते दोषदर्शनादादीनवदर्शनादप्रणिधानं भवति । अप्रणिधानाच्चाप्रणिहितं विमोक्षमुखं व्यवस्थाप्यते । निर्वाणे पुनः तत्र प्रणिधानबतः प्रणिधानं भवति । शान्तदर्शनं । प्रणीतदर्शनं । निःसरणदर्शनं च। निः[3]सरणदर्शनाच्च पुनरानिमित्तं विमोक्षमुखं व्यवस्थाप्यते। तत्रासत्यसम्विद्यमाने नैव प्रणिधानं भवति । तद्यथैवासत्तथैवासदिति । जानतः पश्यतः शून्यताविमोक्षमुखं व्यवस्थाप्यते । एवं त्रयाणां विमोक्षमुखानां व्यवस्थानं भवति ॥ तत्र कतमे शिक्षानुलोमिका धर्माः। आह दश शिक्षाविलोमा धर्माः। तेषां[4]प्रतिपक्षेण दश शिक्षानुलोमिका [धर्मा'] वेदितव्याः। ___ तत्र कतमे शिक्षाविलोमाधर्मास्तद्यथा। मातृग्रामः । शिशुरुदारवर्णो रंजनीयः । शिक्षाप्रयुक्तस्य कुलपुत्रस्याधिमात्रमन्तरायकर: परिपन्थकः, सत्कायपर्यापन्नेषु संस्कारेषु नियन्तिरालस्यं, कौसीद्यं । सत्कायदृष्टे: कबडंकाराहा[5]रमुपादाय रसरागः । लोकाख्यानकथास्वनेकविधासु बहुनानाप्रकारासु चित्रेषु (त्रासु) छ(च्छ)न्दरागानुनयः, धर्मचिन्ता, योगमनसिकारापक्षालः । स पुनः कतमस्तद्यथा 1. auf: seems to have been omitted in the MS,
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy